SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ निश्चयतः पंचवर्णेऽपि चमरे कृष्णवर्णत्वमेवांगीकरोति तथायमपीति लौकिकसमः। न च कृष्णो भ्रमर इत्यत्र विद्यमानेतरवर्णप्रतिषेधाज्ञान्तत्वम्, अनुद्भूतत्वेनेतरा विवक्षा, तपउदासेऽतात्पर्यात्, उद्भूतवर्णविवदाया एवाजिसापादिव्यवहारहेतुत्वात् । कृष्णादिपदस्योद्भूतकृष्णादिपरत्वाधाऽतात्पर्यझं प्रत्येतस्याप्रामाण्येऽपि तात्पर्यशं प्रति प्रामाण्यात्, लोकव्यवहारानुकूलत्वात् । नापि निश्चयतः, अवधारणाक्षमत्वादित्यसत्यमेव । ननु कृष्णो भ्रमर इति वाक्यवत् पंचवर्णो भ्रमर इति वाक्यमपि कथं न व्यवहारनयानुरोधि, तस्यापि लोकव्यवहारानुकूलत्वात्, आगमबोधितार्थेऽपि व्युत्पन्नलोकस्य । व्यवहारदर्शनात्, खोकबाधितार्थबोधकवाक्यस्याव्यवहारकत्वे चात्माऽरुपवानित्यादिवाक्यस्याप्यव्यवहारकत्वापातात्तस्याप्यात्मगौरत्वादिबोधकटोकप्रमाणबोधकत्वादत्रान्तलोकबाधितार्थबोधकत्वं चोजयत्र तुट्यम् । प्रत्यक्ष नियतैव व्यवहारवि. षयता, न त्वागमादिनियतेति तु व्यवहारऽनयस्य चार्वाकदर्शनप्रवर्तकस्य मतम्, न तु व्यवहारनयस्य जैनदर्शनस्पर्शिन इति चेत्सत्यम् । यद्यपि क्वचिददृष्टार्थे नैश्चयिकविषयतासंवलितैव व्यावहारिकविषयता स्वीक्रियते, तथापि लोकप्रसिधानुवादस्थले क्वचिदेव सेति कृष्णो भ्रमर इति वाक्ये स्वजन्यबोधे भ्रमरविषयतानिरूपितपंचवर्णत्वाख्यविषयतायां व्यावहारिकत्वानावान्न तथात्वमिति दिक् । कुंमिका स्रवति, पन्था गवतीत्यादी बाहुट्येन गौणप्रयोगाउपचारप्रायः, विशेषप्रधानत्वाच्च विस्तृतार्थ इति । श्रयमपि सकस निक्षेपान्युपगमपर एव । स्थापना नेत्ययमिति केचित्तेषामाशयं न जानीमः। न हीन्यप्रतिमायां नेन्व्य वहारो जवति, न वा जवन्नपि ब्रान्त एव, न वा नामादिप्रतिपक्षव्यवहारसांकर्यम १ गौरखरवदरण्यमितिवत्. २ गौरकवादि. क्वचिदेव सेति कृष्णायकविषयतासंवखितैव व्यावहारिक न तु व्यवहारनयस्य जैनदर्शन
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy