________________
जयरहस्य
॥ ८५ ॥
इत्यावश्यकगाथा किं इव्यं गुणो वा सामायिकमिति चिन्तायां धव्यार्थिकनयमते गुणं प्रतिपन्नो जीवः सामायिकम्, पर्यायार्थिकनयमते तु जीवस्य गुण एव सामायिकमित्युत्तरम् अत्र च व्यपर्यायनययोः शुद्धद्रव्यपर्यायावेव विषयौ, तत्र | पर्यायव्ययोर्विनिन्नयोः कल्पितयोः कुंरुलतापन्नं स्वर्ण पत्रस्य नीलतेत्यादाविव, विशेषणतयानिधानं तु न स्वविषयव्याधातायेत्यभिप्रायेण महता प्रबन्धेन जाष्यकृता व्याख्याता । मतान्तरानिप्रायेण तु पर्यायार्थिक एव प्रव्यस्य कल्पितस्य विशेषणत्वम्, अव्यार्थिके तु प्रागुपदर्शितदिशा पर्यायस्याकहिपतस्यापि विशेषणत्वं न्याय्यमेव । न च नये विशेषणं कहिपतमेवेति नियमः “ सावज जोगविर तिगुत्तो बसु संजर्ज । उवत्तो जयमाणो श्राया सामाइयं होइ " ॥ १ ॥ इत्यत्र संग्रहह्नयस्वी कृतात्मसामान्यसामायिकविधिनियमनाय प्रवृत्तानां पर्यायशुद्धिमतां व्यवहारादिनयानां यावदेवंभूतमुत्तरोत्तरपर्याय कदंबक विशेषणोपरागेणैव प्रवृत्तिदर्शनात् । न च तत्र पर्यायनयानां संग्रहस्वीकृत विधिविशेषपर्यवसानार्थं पर्याय विशेषणमुप्रया प्रवृत्तावपि सविशेषण इत्यादिन्यायानु पर्याय विधावेव तात्पर्यात्, अन्यनयविधि नियमानुद्देश लक्षणस्वातं| त्र्येण नयानां स्वविषयनिर्देशे विशेषणस्य कल्पितत्व नियम एवेति वाच्यम् । तथाप्यन्यत्वस्य स्वविषयविलक्षण विषयत्वरूपस्य निवेशेन नैगमभेदेषु विशुद्धनैगमे विशेषणस्य पर्यायस्याक स्पितत्व सिद्धेरप्रत्यूहत्वादित्यस्माभिरनुशीक्षितः पन्थाः | समाकलितस्वसमयरहस्यैर्दिव्यदृशा निजालनीयः । नैगमाद्युपगतार्थसंग्रहप्रवणोऽध्यवसाय विशेषः संग्रहः । सामान्यनैगमवारणाय नैगमाद्युपगतार्थपदम् । संग्रहश्च विशेष विनिर्मोकोऽशुद्ध विषय विनिर्मोकश्चेत्यादिर्यथासंभवमुपादेयः । तेन न
१ प्राण्युपदर्शितेति.
प्रकरणम्.
॥ ८५ ॥