________________
किंचिदूनपूर्वकोटिपर्यंतं कथं तदनावे स्थातुं शक्यत इति विवहंति विवक्षाविचक्षणाः तदपि न नश्चेतसि समायाति । यतो यदि समग्रसामग्रीसनावेऽपि सप्तमगुणस्थाने स्तोककालत्वविवक्ष्या कवलाहाराजावः कटप्यते तर्हि समानकदत्वात् । षष्ठेऽपि गुणस्थाने तदलाव आपतितः। न च तत्र प्रमत्तत्वादाहारः सुसाधः घटकुटीन्यायेनास्मत्सिघान्तस्यैव श्रयणीयत्वापत्तेरिति पूर्वपक्षः । एवं प्राप्तेऽनिधीयते । यत्तावत्केवलिनां कवलाहारसाधकस्यानुमानस्यानैकांतिकत्वमुनावितं | तन्मन्दं प्रधानध्यानविरहसहकृतत्वस्य हेतोर्विशेषणात् । न चाहारसंझारूपकारणालावादेव सप्तमगुणस्थाने कवलाहारानाव इति सयोगिकेवलिगुणस्थानेऽपि तदलावोऽन्युपगम्यतामन्यथाहारसंझापि प्रतिपद्यतामिति वाच्यम् । एतस्य मनोरथमात्रत्वात् तथाहि-आहारसंझा किमाहारमात्र प्रति कारणं कवलाहारमात्रं प्रति वा । नाद्यः केवलिनां खोमाहारस्याप्यलावापत्तेः । पितीयेऽपि कवलाहारमात्रं प्रति आहारसंज्ञायाः कारणता किमन्वयव्यतिरेकगम्या विधिगम्या वा । नाद्यः यत्राहारसंशा तत्र कवलाहार इत्यन्वयव्याप्त्यसिकः । “दस सन्ना सबजीवाणं" तिवचनादेकेन्द्रियादिष्वाहारसंज्ञायाः सत्वेऽपि कवलाहारानावात् । नापि वितीयः तथाविधविधेरलावात् तस्मादाहारसंझाया आहारान्निलाषमात्र प्रत्येव कारणत्वम् । न चाजिलाषः खलु प्रार्थना सा च यदीदमहं प्राप्नोमि तदा जव्यमित्याद्यदरानुविधा । तथा चैकेन्धियादिषु अदरज्ञानानावेन व्याप्त्यसिद्धिः। तेषामप्यव्यक्तादरलालस्यानुज्ञातत्वात् । तथा चागमः-“सबजीवाणंपियणं श्ररकरस्स अपंतमो जागो निच्चुग्घामि चि सो विश्र जश् श्रावरेजा तेणं जीवो अजीवत्तणं पावेजा" इति नंदीसूत्रे ।।
१ संज्ञायतेऽभिलष्यत आहारादिकमनया सा संज्ञा.