SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ अध्यात्मि. परीक्षा. अप्रमत्तगुणस्थानां न जुक्तिश्चेत् कुतः परः । बंदीव प्रतिबंदीयं सिद्धान्तवचनस्य न ॥ ११ ॥ टीका-आध्यात्मिकाः किलेत्थमालपंति यत्सप्तमगुणस्थानवर्तिनिः कवलाहारोन क्रियत इति तावत् सकलश्वेतांबरप्रवादः तदिदमस्माकमपि चेतस्सु न्याय्यमिति जाति। यतो निरालंबनधर्मध्यानध्यातुर्यद्यस्य व्यवहाररूपषमावश्यकादिक्रियापि नोपयुक्ता। तथा च गुणस्थानक्रमारोहे श्रीरत्नशेखरसूरयः-"इत्येतस्मिन् गुणस्थाने नो संत्यावश्यकानि षट् । सततध्यानसंद्यो गाबुद्धिः स्वानाविकी यतः॥१॥"इति। ततश्च धर्मध्यानापायजूते प्रमादहेतुनि कवलाहारादावपि प्रवृत्तिन युक्तैवेति उत्तरगुणस्थानेष्वपिसा कथंकारं संगचत इति पूर्वार्धेन प्रतिपादयति-अप्रेति । अप्रमत्तगुणस्थानां “पदैकदेशे पदसमुदायोपचारा"शुणेति पदं गुणस्थानपरं सप्तमगुणस्थानवर्तिनीत्यर्थः । चेद्यदि नुक्तिः कवलाहारो"नोक्त" इति शेषस्तर्हि पुरोऽग्रिमगुणस्थानेषु कुतो न कथमपि विशेषकारणानिर्वचनादित्यर्थः । अथैतस्य विचारक्षमतां निराकुर्वन्नाह-बंदीति । इयं तव प्रतिबंदी नोऽस्माकं सिद्धान्तवचनस्य बंदीव दृश्यते । अस्मत्सियांतस्याग्रेऽकिंचित्करमेतदिति समासार्थः । व्यासार्थस्त्वयम्-केवलिनो जुक्तिः समग्रसामग्रीत्वात् पूर्वनुक्तिवदिदमनुमान सप्तमगुणस्थानवर्तिनानेकांतिक नवति हि तत्रापि पर्याप्तत्वं वेदनीयोदय आहारपक्तिनिमित्तं तैजसशरीरं दीर्घायुष्कत्वं चेति श्वेतांबरपरिकटिपता समग्रसामग्री जुक्तिश्च न जवतीति तैरपि प्रतिपन्नम्। एवं च तुल्येऽपि सामग्रीसन्नावे सप्तमगुणस्थाने कवलाहारो नान्युपगम्यते त्रयोदशगुणस्थाने चान्युपगम्यत इति तत्र कया प्रकृत्या पुनरावृत्तम् । श्रथ यदि स्तोककालत्वात्तत्र कवलाहारानावेऽपि न काचिदनुपपत्तिः त्रयोदशगुणस्थाने तु ६३॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy