________________
प्रध्यात्मि.
॥ ६० ॥
| समीहितम् न केवसिनामनपायं वेदनीयादि कारणिकस्य कवलाहारस्य सिद्धत्वात् । न द्वितीयः गत्यादीनामप्युवेदापत्तेः । | तथा च यथा गत्यादिकर्मजनितं गत्यादिकं केव सिन्यन्युपगन्तव्यं तथा वेदनीयादिकारणिका जुक्तिरपि प्रतिपद्यतामिति । | कवलाहारस्य मोहकार्यतानिराकरणस्थलम् । अथ ध्यानविघ्नलक्षणकार्यविरोधं निराकरोति-न चेति । शुक्लध्यानं तावचतुष्पादम् । तथाहि । पृथक्त्ववितर्क सवीचारम् १ पृथक्त्ववितर्कमवीचारम् २ सूक्ष्मक्रियमनिवृत्ति ३ समुचिन्नक्रियमप्रतिपाति ४ । तलक्षणानि चामूनि - "सवितर्क सवीचारं सपृथक्त्वमुदाहृतम् । त्रियोगयोगिनः साधोराद्यं शुक्लं सुनिमलम् ॥ १ ॥ श्रुतचिंता वितर्कः स्यादी चारः संक्रमो मतः । पृथक्त्वं स्यादनेकत्वं जवत्येतत्रयात्मकम् ॥ २ ॥ स्वशुद्धात्मानुभूत्यात्मनावश्रुतावलंबनात् । अन्तर्जपो वितर्कः स्याद्यस्मिंस्तत् सवितर्कजम् ॥ ३ ॥ श्रर्थादर्थान्तरे शब्दाब्दान्तरे च संक्रमः । योगाद्योगान्तरे यत्र सवीचारं तदुच्यते ॥ ४ ॥ इव्याद्रव्यान्तरं याति गुणाद्याति गुणान्तरम् । पर्यायादन्यपर्यायं सपृथक्त्वं जवत्यतः ॥ ५ ॥ पृथक्त्वमवीचारं सवितर्कगुणान्वितम् । स ध्यायत्येकयोगेन शुक्लध्यानं द्वितीयकम् ॥ ६ ॥ निजात्मद्रव्यमेकं वा पर्यायमथवा गुणम् । निश्चलं चिंत्यते यत्र तदेकत्वं विदुर्बुधाः ॥ 9 ॥ ययंज| नार्थयोगेषु परावर्तविवर्जितम् । चिंतनं तदवी चारं स्मृतं सद्ध्यानकोविदैः ॥ ८ ॥ आत्मरपन्दात्मिका सूक्ष्मा क्रिया यत्रा| निवृत्तिका । तत्तृतीयं जवेलुक्कं सूक्ष्मक्रियानिवृत्तिकम् ॥ ए ॥ बादरे काययोगेऽस्मिन् स्थितिं कृत्वा स्वनावतः । सूझी - करोति वाक् चिन्तयोगयुग्मं सवादरम् ॥ १० ॥ त्यक्त्वा स्थूलं वपुर्योगं सूक्ष्मवाक् चित्तयोः स्थितिम् । कृत्वा नयति सूझत्वं काययोगं तु बादरम् ॥ ११ ॥ सुसूक्ष्मकाययोगेऽथ स्थितिं कृत्वा पुनः क्षणम् । निग्रहं कुरुते सद्यः सूक्ष्मवाकू चित्तयोगयोः
परीक्षा.
॥ ६० ॥