SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्रयास परीका. ॥२०॥ हिंति कंठ्यम् । श्राहारमशनादिकमाहारयन्नन्यवहरन्नातिक्रामत्याज्ञां पुष्टालंबनत्वात् अन्यथा त्वतिक्रामत्येव रागादि- नावात् । तद्यथा-"वेश्र" गाहा कुदना १ वैयावृत्त्यमाचार्यादिकृत्यकरणं २ वेदनवैयावृत्त्यं मुंजीत वेदनोपशमनार्थ वैयावृत्त्यकरणार्थ २ वेति जावः । र्या गमनं तस्या विशुर्युिगमात्रनिहितदृष्टित्वमार्याविशुधिस्तस्यै र्याविशुद्यर्थम् ।। इह च विशुद्धिशब्दलोपादीर्यार्थमित्युक्तम् । बुनुदितो हीर्याशुझावशक्तः स्यादिति तदर्थमिति । चः समुच्चये । संयमः प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थ । तथेति कारणान्तरसमुच्चये । प्राणा उच्चासादयो बलं वा तेषां तस्य वा वृत्तिः पालनं| | तदर्थं प्राणधारणार्थमित्यर्थः । षष्ठं पुनः कारणं धर्मचिंतायै गुणनानुप्रेक्षार्थमित्यर्थः । इत्येतानि षट् कारणानीति । तस्मात् | कारणिकमपि चेदाहारग्रहणं युक्तं तर्हि पात्रादिरक्षणमपि संयतानां कथमयुक्तमिति मुधा शिवजूतिना विप्रतारितोऽसि । नापि चतुर्थः मूर्गविषयस्य संयमोपघातिन एव वस्तुतः परिग्रहरूपत्वात् श्रन्यस्य तु शरीरस्येवातथारूपत्वात् । तथा चागमः-"न सो परिग्गहो वुत्तो नायपुत्तेण ताणा । मुठा परिग्गहो वुत्तो श्य वुत्तं महेसिणा ॥१॥ इति" श्रीदशवै. कालिके तथा-"तम्हा किमस्थि वत्थु गंथो गंथोव सबहा लोए । गंथो वम गंयो मुन्चममुखाइ निन्जय ॥१॥ वत्थाई तेण जं जं संजमसाहणमरागदोसस्स । तं तमपरिग्गहोच्चित्र परिग्गहो ज तवयारी ॥२॥” तस्मात् किं नाम तस्त्वस्ति लोके यदात्मस्वरूपेण सर्वथा ग्रंथोऽग्रंथो वा । नास्त्येवैतदित्यर्थः । ततश्च यत्र वस्त्रपात्रदेहाहारकनकादौ मूर्ग समुत्पद्यते तन्निश्चयतः परमार्थतो ग्रंथः। यत्र तु सा नोपजायते तदग्रंथ इति । एतदेव व्यक्तीकरोति "वत्या तेणेति" शेष सुगम-|| ॥ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy