________________
अध्यात्मि. ॐ न्यवाचकत्वेऽपि नीहारशब्दसमभिव्याहारस्य तत्र तात्पर्यख्यापकात् ; न च नीहारशब्दस्तैजसशरीरेण पच्यमाने लोमाहार एव रूढः । यतः किमियं रूढिलौकिकी पारिभाषिकी वा नाद्योऽसंजवात् नापि द्वितीयस्तथा कुत्रचिदपि पूर्वसूरिनिरना॥ ५३ ॥ ख्यातत्वात् । किं चैतदतिशयस्य सहोत्यत्वेन गार्हस्थ्येऽपि कवलाहारविलोपान्न लजसे सामान्यजनसाधारणत्वाच्च कथमतिशयत्वमप्येतस्येति पूर्वापर विचारचातुरीशून्यहृदयः संवादयितुमप्यनर्होऽसि । ननु किं तदतिशयत्वम् न तावतीर्थंकर* नामकर्मोदयजनितो लब्धिविशेषः तीर्थकरनामकर्मोदयस्य त्रयोदशगुणस्थान एवानिहितत्वात्तथा चाहु:-" उदए जस्स सुरासुर नर निवहेहिं च पूजे होइ । तं तित्थयरनामं तस्स विवागो डु केवलिणो ॥ १ ॥ इति” । नाप्यईत्त्वसमानाधिकरणो विशेषगुण एवातिशयः घातिकर्मक्ष्योनवानां केवलज्ञानादीनां सामान्यकेव खिसाधारणत्वात् । न चान्यव्यावृत्तिबुध्ध्युपधायकाहत्त्वसमानाधिकरणो विशेषगुण एवातिशयः लक्षणविशेषस्यापि तथात्वप्रसंगात् । नापि कश्चन शक्तिविशेषोऽनिर्वचनात् । तस्मादतिशयत्वमेवा सिद्धमिति कश्चित् । अत्रादिध्महे सहजदेवकृतक्षायिकत्वोपाधिजेदावछिन्ननेदप्रतियोग्यव्यासज्यवृत्तितीर्थकरत्वसमानाधिकरणो विशेषगुण एवातिशयः । नन्वेषां युगपदनुत्पत्तौ किं नियामकमिति चेच्छृणु | सर्वत्र प्रतिबन्धकाभावस्तत्कारणमन्यथा तन्तुरूपं पटोत्पत्तिमनपेक्ष्यापि पटरूपं जनयेत्तस्माद्यथा तत्र प्रतिबन्धकाभावः कारणमेवमत्रापि प्रतिबन्धकौ चात्र गर्भानवतारज्ञानानुत्पादौ तौ च कारणीभूताभावप्रतियोगित्वेन कार्यैकोन्नेयाविति प्रतिबन्धकानपगम एव नियामकः । चतुरादीनां च समकालोत्पत्तौ पंचांगुलीनामिव प्रतिबन्धकाभाव एव नियामक इति | सर्वमवदतम् । न तु सर्वमिलनेनैव चतुस्त्रिंशदतिशयस्वामित्वमेवाईतां मन्यामहे न तु केवलज्ञानोत्पत्तिसमनंतरं चतुखि
परीक्षा.
॥ ५३ ॥