SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पञ्चम-षष्ठौ भवौ ॥ | अथ भो भूपते! ततो मृत्वा यत्राहं समुत्पन्नस्तद् आकर्णय-या मम पूर्वभवमाता ग्राहत्वं प्राप्ताऽभूत् सा यदा क्रूरकर्मभिरन्योऽन्यं स्पर्द्धमानीवरैर्विनाशिता तदा सा उज्जयिनीसमीपस्थे ग्रामे अजाऽभूत् , अहं च कर्मवशात् तद्गर्भ समुत्पन्नः। ततः क्रमेण शृङ्गद्वययुक्तो रक्तदृष्टिः सप्तपर्णदलतुल्यकर्णः तृणभक्षकः श्मश्रुमान् गद्गदखरो मेपोऽभूवम् । अथेकदाऽहं यौवने विषयाकाली सन् संभोगार्थ तामेव निजमातरं समारूढो। यूथाधिपेन दृष्टः, तदा साभिमानेन पापिना तेन यूथनाथेन रतश्रान्तोऽहं मर्मस्थाने विभिन्नः। ततः सद्यो मृत्वा कर्मवशात् तस्या एव अजायाः कुक्षौ खवीर्ये एव पुनरजत्वेन संजातः । तत्र हि दृश्यतां कर्मगतेवैचित्र्यम् !, या मम माता सा एव कान्ताऽभूत् , या पुनः कान्ता सा माता बभूव!। तथा पिता कोऽपि नास्ति, अहं खयमेव स्वस्य पिता समजनि । ततः सोऽहं स्वयंभूस्तस्या उदरे तिष्ठामि, सा च गर्भभारेण मन्दगामिनी बभूव । एकदा मृगयार्थ बहिर्निर्गतः कुण्डलीकृतधनुर्दण्डो गुणधरो नृपः कस्यापि जीवस्य अप्राप्त्या निष्फलीभूतवनविहारत्वाद् विषण्णः सन् पश्चाद् व्यावृत्य मार्गे मन्दं मन्दं गच्छन्तीं ताम् अजां दृष्ट्वा बाणेन सद्यो निजघान । सा च गाढप्रहारात् तैरेव पदैः पृथिवीं पपात । ततो निष्पन्नकार्यो नृपः १ संजातः। KARACARRANAGAR
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy