________________
॥ २० ॥
श्रीयशोध. शीघ्रं तत्रागत्य ताम् अजां सगर्भा मत्वा सेवकान् आदिश्य तस्या उदरं विदारयामास । तदा बहिर्निर्गतं मां बालं रमणीयं विलोक्य खसार्थे समादाय सेवकेभ्यो वर्द्धनार्थं ददौ । ततस्तैः अजादिस्तन्यैः परिवर्द्धितो नाम्ना अयोनिसंभवोऽहं क्रमेण पुष्टशरीरः सन् नृपगृहे तिष्ठामि । अत्रान्तरे गुणधरो राजा मृगयाजयार्थे | पञ्चदश महिषान् विनाश्य तेषां मांसपिण्डैः कुलदेवतानां पूजां कृतवान् । तथा तेषां कण्ठाऽऽमिषं याजकब्राह्मणार्थे परिपाचितवान् । ततो नृपाज्ञया गृहसूपकरैरुच्छिष्टधान्यस्य परिपाकविशुद्ध्यर्थम् अहं रसवती - गृहं प्रापितः । तत्र च मयाऽऽप्रातपूर्व सर्व भोज्यं भुक्तम् । ततो 'मेध्यं मुखं हि मेषाणाम्' इति वेदोक्तत्वाद्र ब्राह्मणैर्मद्यम् आचमनं दत्त्वा मदात्रातं सर्व्वं खयं भुक्तम् । तदनु ते ब्राह्मणाः सर्वेऽपि उत्थाय यावत् पक्षि| पक्तिभिः स्थितास्तावद् आशीर्वादग्रहणोत्सुको नृपस्तान् नमस्कर्तुं तत्रागात् । तं च विशेषकृतसंस्काराभिरन्तःपुरीभिर्युक्तं पुरः स्थितं विलोक्य हे राजन् ! अहं मनसि अतीव मोहाकुलः संजातः । तदा एकाग्र - तया तान् पश्यता मया खपूर्वजन्म स्मृत्वा सर्वोऽपि वृत्तान्तो ज्ञातो विस्मयस्तन्धकण्ठेन सता सर्व निजं राजकुलं दृष्टम् । ततो भूपतिर्ब्राह्मणान् नत्वा मयि शृण्वति सति एवम् उवाच - 'एषा द्विजानां पङ्क्तिर्मम पितुः उपनयतु, इयं पुनर्मातुः उपनयतु, तथा इयं मम गोत्रदेव्या उपनयतु' । अथ नरेन्द्रे एवं वदति सति ब्राह्मणैरुक्तम्- 'हे महाराज ! त्वं जय जय, तुभ्यं सदा स्वस्त्यस्तु, तव पितरस्तु इह द्विजशरी रेषु
१ पवित्रम् ।
चरित्रम्. भवौ ५-६
॥ २० ॥