SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीयशोध. ॥ १९ ॥ जम्बालजालमनाङ्गो निर्भयः सन् पल्यङ्के इव तिष्ठामि । अथ कियत्यपि काले गते सति पापवृत्तिभिर्धीवरैर्जलान्तरे जालं क्षित्वा अहं जीवन्नेव गृहीतः । ततो 'महामत्स्योऽयम्' इति विचिन्त्य सन्तुष्टैस्तैः कस्मिं - |श्चित् कार्ये समुत्पन्ने सति गुणधरस्यैव राज्ञोऽग्रे प्राभृतीकृतः । तदा स राजा जनन्यादेशवर्ती विनयी विवेकी च सन् तां नयनावलीं देवीमुवाच - 'हे मातः ! तातं पितामहीं च उद्दिश्य अस्य रोहितमत्स्यस्य पुच्छभागस्तु ब्राह्मणेभ्यो दीयताम्, शेषमस्मदर्थं सत्वरं पाच्यताम्' । ततः साऽपि 'हे वत्स ! एवमेव करिप्यामि' इत्युक्त्वा दासीवर्ग समादिदेश । अथ दास्योऽपि तदादेशात् समुत्सुकीभूय कुठारादिभिः प्रबलं मे पुच्छं चिच्छिदुः । ततः क्षणाद् मम शरीरं हिङ्गु-सैन्धवैर्लिप्तं विधाय, हरिद्रावारिणा संसिच्य, जीरक| चूर्णेन चर्चयित्वा च अभिनवघृतपूर्णायां कटाह्यां सूपकारैः परिपाचितम् । तदा ममात्मना नरकप्रायं | दारुणं दुःखमनुभवतापि दुष्टैर्निगडितेन इव स महाकायो न परित्यक्तस्तदाऽहमेवम् अज्ञासिषम् - 'अहह ! महत्कष्टम्, कर्म केलयो महाविषमाः ! हा अहं दैवेन हतः !, यतो मे पक्कं मांसं छित्त्वा छित्त्वाऽयं पुत्रो हर्षितः सन् खादति, पुनर्यस्य श्रेयोऽर्थ मम पुच्छं दत्तं सोऽहमेवाऽस्य पिताऽस्मीति' । इत्थम् आर्त्तध्यानलीनो धर्मध्यानपराङ्मुखश्च सन् तत्राहं तीव्रवेदनार्त्तः कालधर्म प्राप्तः । तदेवं भो राजन् ! ममेदं तृतीयं । भवान्तरं मन्यख । इति श्रीयशोधरचरित्रे नृप- जनन्योश्चतुर्थो भवः ४ ॥ १ जम्बाल शेवालः । चरित्रम्, भवः ४ ॥ १९ ॥
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy