________________
श्रीयशोध. च बहूनामीश्वरो धर्मकरणायोत्सुकश्च, एतस्याऽमङ्गलकरणादवश्यं दुर्गति र्जायते, तथापि अयमीदृक् कुजक-||
चरित्रम. स्नेहः, तथाऽमी विषयाः साम्प्रतं वियुक्ताः सन्तः पुनः खप्नेऽपि दुर्लभाः। अत इदमकृत्यमपि कर्त्तव्यमिति' भवः१ ॥१४॥ | अथ तत्र बन्धुवर्गभोजनानन्तरं मयि भोजनं कुर्वाणे सति तया नयनावल्या दासीकरतले समर्पितम
तिरम्यं बहुद्रव्ययोगनिष्पन्नं वटकं समागतम् । तच्च 'हे खामिन् ! अद्य भवदर्थ कान्तया रचितं मनोहरमेतद्बटकं भुज्यताम्' इत्युक्त्वा सा दासी मम भाजने मुमोच । तदा तत्र ते मयूराश्वकोराः कुर्कुटाश्च आसना नाभूवन् ये हि विषमिश्रितमन्नमुपलक्ष्य राज्ञां पुरो नृत्यं रोदनं शब्दं च कुर्वन्ति । ततोऽहमपि भवि
तव्यतावशात् तद् विषमिश्रितं वटकमाखाद्य जलेन मुखादिशुद्धिं विधाय पत्र-पूगफलादि करे गृहीत्वा ४ है यावत् उन्नतासने उपविष्टस्तावद् बहुमहोत्सवेन परिणीतया भार्यया मद्वधार्थ प्रयुक्तं तद्विषं देहे प्रसतु
मारेभे, तदा तेन तीनविपाकेन कालकूटविषेण वैरिणो बलेनेव प्रसरता मम सप्ताऽपि धातवो भिन्नाः। ततः शरत्काले मयूरस्य पिच्छानीव मम निर्मूलानि रोमाणि समन्तात् प्रक्षरन्ति स्म, तथा प्रभातवातकम्पितवल्लीनां कलिका इव दन्ताः शिथिलबन्धनाः सन्तः पतन्ति स्म, तथा ग्रीष्मर्तुसंभवेन ऊष्मणा केतकस्याङ्करा इव स्फुटन्तो नखा विषव्याप्त्या श्यामीभूताः, तथा विषज्वरभरार्चस्य मम समस्तैरपि शरीराऽवय-||
॥१४॥ वैज़लद्भिरिव शमशमायितम् , पुनस्तदा मम जिह्वा जाड्यं गता, कौँ बाधिर्य प्राप्तौ, तमःपटलैर्लोचने आच्छादिते। ततोऽहं दत्तमहाकपाटे कारागृहे बन्दीकृत इव चेतसि वाञ्छन्नपि रुद्धचेष्टत्वाद् वक्तुं श्रोतुं