SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ॥८४॥ षट्शतानि उपवासान् चकार । पुनः प्रथममुपवास्तत एक भुक्तं तत आचाम्लं पुनरूपोषणं, एवं त्रयोदश मासान् याबद् विजयदान गुरोस्तपो विदधे । द्वाविंशन्मासपर्यन्तं वहन् योगमनुतरम् । तीव्र तपश्च विदधे मुमुक्षु पंतिराट् ततः ।। १०७ ।। सुरिमन्त्रं समाराध्य यावन् मासत्रयं पुनः । चतुष्कोटि प्रमाणं हि स्वाध्यायं व्यदधात् गुरुः ॥ १०८ ॥ जिनमूर्तिप्रतिष्ठां च पचाशद् कृतं तथा । इति नाना विधान धर्मकार्यं कृत्वा यतीश्वरः ॥ १०९ ॥ | द्विपञ्चाशत् समधिके षोडशे शतके किल । श्रादशुक्ल एकादश्यां महामन्त्र स्मरन् शुभम् ॥ ११० ॥ ऊनायां नगरे रम्ये नाकं प्राप यतीश्वरः ॥ ॥ इति श्री जगद्गुरु भट्टारक हीरविजय सूरीश्वर संक्षिप्त जीवनचरितस्य पूर्वाधः ।। प्रान्तियशासकस्योपरि प्रभावः कलाखानः अभ्ररामरसैके च १६३० शतके श्री जगद्गुरुः । यदाऽगच्छत् पाटणहि नगरं सुमनोहरम् || १ || तदा विजयसेनस्य सूरेः पाटमहात्सवं । अत्रत्य हेमराजाख्यो जैनामात्यश्च श्रावकः || २ || वहुद्रव्यव्ययं कृत्वा शुभकार्यमचीकरत् । तदा पाटणपुर्वीच शासकासीत् कलाखानः ||३|| अत्याचारेणास्य सर्वास्त्रस्ता अनुवद् बहु । सूरेः पाण्डित्यमाकर्ण्य तेन संमिलितुं पुनः || ४ || प्रतिहारं प्रेषयित्वा आह्वयन् मुनिपुंगवम् । कलाखानो हि प्रथमं सुरिं संस्कृत्य सूनृता ॥ ५ ॥ ततः पप्रच्छ सुरिं यत् गुरो सुर्यशशाङ्कयोः । वर्तते चोपरिस्तात्कः तन्ममाचक्ष्व सस्फुटम् || ६ || उच्चैः शीतरुचिश्वास्ति नीचैरस्ति दिवाकरः । इति सुरेर्वचः श्रुत्वा शासकः पुनरब्रवीत् ॥ ७ ॥ मम शास्त्रे भास्करं च उपरिस्थं हि वर्णितम् ।
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy