SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 119211 ॥ पञ्चमवर्गः ॥ 1 लब्ध्वैतन्मानुषं जन्म सारं सर्वेषु जन्मसु । सुकृतेन सदा कुर्यात्सकलं सफलं सुधीः ॥ १ ॥ निरन्तरकृताद्धर्मात्सुखं नित्यं भवेदिति । अवन्ध्यं दिवसं कुयादानध्यानतपः श्रुतैः ॥ २ ॥ आयुषस्तृतीये मागे जीवोऽन्त्य समयेऽथवा । आयु शुभाशुभं प्रायो बध्नाति परजन्मनः ॥ ३ ॥ आयुस्तुतीयभागस्थः पर्वत्रस्त्रेषु पञ्चसु । श्रेयः समाचरन् जन्तुर्वभात्यायुर्निजं ध्रुवम् ॥ ४ ॥ जन्तुराराधयेद्धमै द्विविधं द्वितीयादिने । सृजन सुकृतसंघातं रागद्वेषद्वयं जयेत् ॥ ५ ॥ पञ्चज्ञानानि लभते चारित्राणि व्रतानि च । पञ्चमीं पालयन् पञ्च प्रमादान् जयति ध्रुवम् ॥ ६ ॥ दुष्टाष्टकर्म नाशायाष्टमी भवति रक्षिता । स्यात्प्रवचनमातृणां शुद्धयेऽष्टमदान् जयेत् ॥ ७ ॥ एकादशांगानि सुधीराराधयति निश्चितम् । एकादश्यां शुभं तन्वन् श्रावकमतिमास्तथा ॥ ८ ॥ चतुर्दशरज्जू परिवासमासादयत्यहो । चतुर्दश्यामाराधयन्पूर्वाणि च चतुर्दश ॥ ९ ॥ एकैकोच - फलानि स्युः पञ्चपर्वाण्यमूनि वै । तदत्र विहितं श्रेयोऽधिकाधिकफलं भवेत् ॥ १० ॥ धर्मक्रियां प्रकुर्वीत विशेषात्पर्ववासरे। आराधयन्नुत्तरगुणान् वर्जयेत्स्नानमैथुने ॥ ११ ॥ विदध्यात्पौषधं धीमान् मुक्तिवश्यौषधं परम् । तदशक्तौ विशेषेण श्रयेत्सामायिकव्रतम् ॥ १२ ॥ चयवनं जननं दीक्षा ज्ञानं निर्वाणमित्यहो । अर्हतां कल्याणकानि सुधीराराधयेत्तथा ॥ १३ ॥ एकस्मिन्नैकाशनकं द्वयोर्निर्विकृतेस्तपः । त्रिष्वाचामलं सपूर्वार्द्ध चतुर्षुपोषितं सृजेत् ॥ १४ ॥ सपूर्वार्द्धमुपवासं पुनः पञ्च तेष्विति । पञ्चभिर्वत्सरैः कुर्यात्तानि चोपोषितैः सुधीः ।। १५ ।। अदादिपदस्थानि विंशतिस्थानकानि च । कुर्वीत विधिना
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy