SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ संग्रह धर्मोपदेश-४ निःसत्वो भूरिकर्माहं सर्वदाप्यजितेन्द्रियः। नेकाहमपि यः शक्तः शीलमाधातमुत्तमम् ॥१६॥ संसार ! तव निस्तारपदवी ॥७१॥ | न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥१७ ॥ अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः॥ १८॥ या रागिणि विरागिण्यः स्त्रियस्ताः कामयेत कः । सुधीस्ता कामयेन्मुक्ति या विरागिणि रागिणी ।। १९ ॥ एवं ध्यायन् भजेन्निद्रां स्वल्पकालं समाधिमान् । भज्जेन्न मैथुनं धीमान् धर्मपर्वसु कर्हि चित् ॥ २०॥ नातिकालं निषेवेत प्रमीलां धीनिधिः पुनः । अत्यादृता भवेदेषा धर्मार्थसुखनाशिनी ॥ २१॥ अल्पाहारा अल्पनिद्रा अल्पारम्भपरिग्रहाः । भवन्त्यल्पकषाया ये ज्ञेयास्तेऽल्पभवभ्रमाः ॥ २२ ॥ निद्राहारभयस्नेहलजाकामकलिक्रुधः । यावन्मात्रा विधीयन्ते तावन्मात्रा भवन्त्यमी ॥ २३ ॥ विघ्नवातलता नेमि श्रीनेमि मनसि स्मरन् । स्वापकाले नरो नैव दुःस्वप्नैः परिभूयते ॥ २४ ।। अश्वसेनावनीपालवामादेवीतनूरुहम् । श्रीपाश्चै संस्मरन् नित्यं दुःस्प्नं नैष पश्यति ॥ २५ ॥ श्रीलक्ष्मणांगसंभूतं महसेननृपाङ्गाजम् । चन्द्रप्रभं स्मरन् चित्ते सुखनिद्रा लभेरसौ ।। २६ ॥ सर्वविघ्राहिगरुडं सर्वसिद्धिकरं परम् । ध्यायन् शान्तिजिनं नैति चौरादिभ्यो भयं नरः॥ २७ ।। इत्यवेत्य दिनकृत्यमशेषं श्राद्धवर्गजनितोतततोपम् । यच्चरमिह परत्र च लोके कीर्तिमेति पुरुषो धुतदोषम् ॥ २८ ॥ RAHARASHTRA RRRRRRRRCH ॥ इति श्री रत्नसिंहसूरीश्वरशिष्य श्रीचारित्रसुन्दरगणिविरचिते आचारोपदेशे चतुर्थो वर्गः ॥
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy