SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ॥७३॥ संग्रह ACC- 1 skin. | धन्यस्तपसैकाशनादिना ॥१६॥ ततो विधिध्यानपरो योऽमून्याराधयत्यहो । लभते तीर्थकृन्नामकर्माशर्महरं परम् ॥ १७ ॥ उपवासेन यः शुक्लामाराधयति पञ्चमीम् । सार्द्धानि पञ्चवर्षाणि स लभेत्पञ्चमी गतिम् ॥ १८ ॥ उद्यापनं व्रते पूर्ण कुर्याद्वा द्विगुणं व्रतम् । तोदिनप्रमाणानि भोजयेन्मानुपाणि च ॥ १९ ।। कारयेत्पश्च पच्चोच्चै नोपकरणानि च । पञ्चम्युद्यापने तद्वच्चैत्योपकरणान्यपि॥२०॥ पाक्षिकावश्यक तन्वन् चतुर्दश्यामुपोषितम्। पक्षं विशुदं तनुते द्विधापि श्रावको निजम् ॥२१॥ त्रिषु चतुर्मासिकेषु कुर्यात् षष्टं तपः सुधीः । ज्येष्टपर्वण्यष्टमं च तदावश्यकयुक सृजेत् ।। २२ ।। अष्टाहिकासु सर्वासु विशेपात्पर्ववासरे। आरंभान वर्जयेत् देहे खण्डनोत्पेषणादिकान् ॥२३॥ पर्वणि अणुयाज्ज्येष्ठे श्रीकल्पं स्वच्छमानसः । शासनो-3 सर्पणां कुर्वन्नमारि कारयेत्पुरे । २४ ॥ श्राद्धो विधाय सद्धर्मकर्म नो निर्वृतिं व्रजेत् । अतृप्तमानसः कुर्याद्धर्मकर्माणि | नित्यशः ॥२५॥ ज्येष्ठे पर्वणि श्रीकल्पं सावधानं शणोति यः। अन्तर्भवाष्टकं धन्यं स लभेत्परमं पदम् ॥२६ ।। सम्यक्त्वसेवनान्नित्यं सद्ब्रह्मव्रतपालनात् । यत्पुण्यं जायते लोके श्रीकल्पश्रवणेन तत् ॥ २७। दानस्तपोभिर्विविधैः सत्तीर्थोपासनरहो । यत्पापंक्षीयते जन्तोस्तत्कल्पश्रवणेन वै ॥ २८ ॥ मुक्तः परं पदं नास्ति तीर्थ शत्रुभयात्परम् । सद्दर्शनात्परं तचं शास्त्रं कल्पात्परं न हि ॥ २९ ॥ अमावास्यापतिपदोदीपोत्सव दिनम्थयोः । प्राप्तनिर्वाणसद्भानौ स्मरेच्छीवीरगौतमी ॥३०॥ उपवामदयं कृत्वा गौतम दीपपर्वणि । यः स्मरेत्स लभेन्नूनमिहामुत्र महोदयम् ॥३१॥ स्वगृहे ग्रामचैत्ये च विधिनार्चा जिनेशितुः । कृत्वा मङ्गलदीपं चाश्नीयात्सार्द्ध स्वबन्धुभिः ॥ ३२॥ कल्याणकं जिनानां हि परमे दिनपंचके निजशक्त्या सदार्थिभ्यो दद्यादानं यथोचितम् ॥ ३३॥ इत्थं सुपर्व विहितोत्तमकृत्यचा-चारमचारपिहिताश्रववर्गमार्गः। 0ty
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy