SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ धर्मोपदेश॥६२॥ सर्वेऽपि तस्यैवाट्टे गृह्णन्ति ददति च । लोके कोर्तिः सर्वेषां विश्वासश्च । स्वर्णमानीय वध्वाः समर्पितम् । वधूः प्राह - परीक्षां करुत | ततः पश्ञ्चसेरी कारिता । चर्म वेष्टितां स्वनामाङ्कां च कारयित्वा त्रिदिनीं राजपथे मुमोच । केनापि न दृष्टा । ततो लात्वा क्वापि महाजलाशये क्षिप्ता, मत्स्येन गलिता । मत्स्योऽपि कस्यचिज्जालिकस्य जाले पपात । पाटनानन्तरं निर्गता पञ्चसेरी । नानोपलक्ष्य श्रेष्टिनोट्टे मात्स्यिनानीता, किञ्चिद्दत्वा गृहीता । वधूवचसि प्रत्ययो जज्ञे । ततः शुद्ध व्यवहारपरेण बहुवित्तान्युपार्जयन सप्तक्षेत्र्यामनेकधा व्ययं कुर्वन् प्रौढ़ि परां प्राप । तदनु सर्वोऽपि लोकः शुक्लद्रव्यमेतस्येति कृत्वा व्यवसायाद्यर्थं कलान्तरादिना गृहाति । प्रवहणपूरणेऽपि तस्यैव द्रव्यं विघ्ननिवृत्त्यर्थं क्षिप्यते । कालेन तन्नाम्नाऽपि सर्वत्र वृद्धि कृत्याऽद्यापि प्रवहणचालनावसरे "हेलउ हेलउ" इति लोकाः कथयन्ति ॥ एवं शुद्धव्यवहार इहापि प्रतिष्ठाहेतुः । तस्मान्न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । उक्तं चसुधीरर्थार्जने यत्नं कुर्यान्न्यायपरायणः । न्याय एवानपायोऽयमुपायः सम्पदां यतः ॥ १ ॥ तथा बरं विभव वन्ध्यता सुजनभावभाजां नृणा-मसाधुचरितार्जिता न पुनरूर्जिताः सम्पदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं, विपाक विरसा न तु श्वयथुसंभवा स्थूलता ॥१॥ विहाराऽऽहार-व्याहार-व्यवहारास्तपस्विनाम् । गृहिणां तु व्यवहार एव शुद्धो विलोक्यते ॥२॥ तथाऽन्यायोपलक्षणाद्देवद्रव्यज्ञानपाषण्डिपार्श्वस्थादिधनेन व्यवसायकरणं, व्याजेन ग्रहणाद्यपि महादोषकृत् । यदाह संग्रह
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy