SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ॥६०॥ अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति । प्राप्त त्वेकादशे वर्षे समूलं च विनश्यति ॥१॥ वश्वकश्रेष्ठिन इव क्वापि संनिवेशे हेलाकः श्रेष्ठी, हली भार्या, भलाकः सुतः । श्रेष्ठी मधुरालाप-कूटतुलामान-नवपुराणादिमीलन-रसभेद-चौरापहृतादानादि पापव्यवहारप्रकारैर्मुग्थयामटलोकवञ्चनवृत्त्या धनार्जकः । स हि परवञ्चनया परमार्थतः १स्वात्मवश्चक एव । यत: कौटिल्यपटवः पापा मायया बकवृत्तयः । भुवनं वश्चयमाना वश्चयन्ते स्वमेव हि ॥१॥ मिलितमपि द्रव्यं वर्षप्रान्तेऽन्यायायातत्वाच्चौराग्निराजादिभिरपहियते, गृहे न किमपि मिलत्ये कत्र । क्रमेण सुतो यौवने ग्रामान्तरवासिसुश्रावकश्रेष्ठिसुतां परिणायितः । वधूगुहे समायाता । श्राविका ज्ञातधर्मा । श्रेष्ठिनोऽर्ट गृहासन्नम् । श्रेष्ठी ग्रहणदानाद्यबसरे पूर्वसंकेतितप श्चपोकरत्रिपोकरमानश्कसम्वन्धेन 'सुतस्यापि पश्चपोकररूपापरनामाह्वानं करोति । क्रमेण लोकैतिवृत्तान्तैर्वञ्चकश्रेष्ठीति नामान्तरं दत्तं श्रेष्ठिनः । एकदा बध्वा भर्ती पृष्टः । कस्मात्तातो युष्मानपरनाम्नाऽऽकारयति ? तेन सर्वोऽपि व्यवसायव्यतिकरोऽकथि । वध्वा धर्मार्थिन्या श्रेष्ठि विज्ञप्तः । एवं पापव्यवहारादिनााजतं वित्तं न धर्मकर्मणे, नापि भोगाय, गृहेऽपि न तिष्ठति । ततो उन्यायार्थार्जनं श्रेयः । श्रेष्ठिनोक्तं कथं निर्वाहः ? न्यायेन व्यवहरतो लोकः४ कोऽपि न विश्वसिति । वध्वोक्तं स्वल्पमपि व्यवहारशुद्धं बहु बहु मिलति तिष्ठति च । सुक्षेत्रोप्तबीजबहुफलं, निःशंकतया भोगादिप्राप्तेर्मनसः सुखसमाधिलाभश्च । यदि न प्रत्ययो भवता तदा षण्मासी यावत्कुटवृत्तिपरिहारेण न्यायवृत्त्या व्यवसायं कुरुध्वम् । ततो वधूवचसा श्रेष्ठी तथा चके। षण्मास्यां पञ्चसेरमितं स्वर्णमर्जितम् । सलवादित्वसत्यकारितत्वादिना ग्राहका: १ " स्वार्थवश्चकः" । २ " नासक" । ३ " ऽन्यायान्नार्थार्जनं श्रेयः" । ४ “लोके"।
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy