SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ + संग्रह धर्मोपदेश-18| संग विरोध च घनैः समम् ॥१९॥ ॥५३॥ सर्वत्र शुचयो धीराः सकर्मबलगविताः । कुकर्मनिहतात्मानः पापाः सर्वत्र शकिताः ॥१॥ इहान्यायप्रवृत्तौ पुरुषस्य द्विविधाभिशङ्कनीयता, भोक्तु ग्यविभवस्य च। तत्र भोक्तुः परद्रव्यद्रोहकार्ययमित्येवं दोषसंभावनलक्षणा । | भोग्यस्य पुनः परद्रव्यमिदमित्थमनेन भुज्यते, इत्येवंरूपा। तत्प्रतिषेधादनभिशङ्कनीयता, तया । अत्रायं भावः-न्यायोपार्जितवित्तव्ययं कुर्वाणो न केनापि कदाचित्किञ्चिदभिशक्यते । एवं चाव्याकुलचेतसः प्रशस्तपरिणतेरिहलोकेऽपि महान् सुखलाभः सर्वत्र यशःप्रशंशाप्रातिश्च । परलोकहिताय च सत्पात्रादिषु विनियोगेन पुण्यानुबन्धिपुण्यप्राप्तिहेतुत्वात् दीनानाथादिषु कृपया वितरणाच्च । इह न्यायार्जितवित्त सत्पात्रादिविनियोगाभ्यां चतुर्भङ्गी यथा-"न्यायागतविभवसत्पात्रविनियोगः !" अयं चाक्षेपेण पुण्यानुबन्धिपुण्यहेतुत्वात् । सुदेवत्वभोगभूमिः टू मनुष्यसम्यक्त्वादि प्राप्यासन्नसिद्धिफलो धनसार्थवाहशालिभद्रादिवत् । यदाह परितुलियकप्पपायवचिन्तामणि कामधेणुमाहप्पं । दाणाओ सम्मतं, पत्तं धणसत्यवाहेणं ॥१॥ यद्वा नन्दिषेणादिवत् क्वापि संनिवेशे कोऽपि ब्राह्मणो धनौधैधनदस्पर्डी यज्ञप्रारम्भे ब्राह्मणलक्षभोज्यं प्रारब्धवान् । तत्र सहाय्यार्थ कमपि जैन दानरुचिं निःस्वब्राह्मणं लक्षभोज्यसमाप्तावुद्धरितं धनाज्यादि तुभ्यं दास्यामीति प्रतिज्ञाय स्थापितवान् । क्रमेण लक्षभोज्यसंपूर्ते शेष तन्दुलादिकं न्यायागतं प्रासुकं मत्वा निःस्वद्विजेनाचिन्ति; यदुतैतत्क्वापि सत्पात्राय दीयते तदा बहुफलं जायते । यत : "नायागयाणं कप्पणिज्जाणं अन्नपाणाइदव्वाणं पराए भत्तीए आयानुग्गहबुद्धीए संजयाणं दाणं अतिहिसंविभागो मुक्खफलो।"
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy