________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्रस्तवः।
कल्पसूत्रं कल्पलता व्या०२
अथ द्वितीयं व्याख्यानम् ॥
॥२८॥
पुनः "धम्मवरचाउरंतचक्कवीणं" धर्मेषु वर=श्रेष्ठः, तेन नरकादिचतुगत्यन्तकरणाचतुरान्तेन मिथ्यात्वादिरिपूच्छेदकत्वाचक्रेणेव वर्तितुं शीलं येषां ते संपदा ॥६॥ पुनः "दीपोताणं" इत्यादिषु पश्चपदेषु चतुर्थ्यथें षष्ठ्यन्तपदानि योज्यानि । तत्र दीप इव दीपः समस्तवस्तुप्रकाशकत्वात् । अथवा दीपो भवाम्बुधौ दुःखकल्लोलरभिहतानां आश्वासहेतुत्वात् । पुनः "नाणं" अनर्थप्रतिहननं, तस्य हेतुत्वात् । पुनः “शरणं” अर्थसंपादनम् , तस्य हेतुत्वात् । पुनः “गई" गम्यते दुःस्थैः सौख्यार्थ आश्रीयते इति गतिः। पुनः "पइट्ठा" प्रतिष्ठन्ति अस्यां प्रतिष्ठा आधारः संसारगते पततां जीवानां आलम्बनत्वात् । पुनः "अप्पडियवरनाणदसणधराणं" अप्रतिहते-कटादिभिः अस्खलिते बरे क्षपिकत्वात् केवलज्ञानदर्शने ते धरन्तीति । पुनः “विअछउमाणं" चत्वारि घातिकर्माणि संसारो वा छद्म उच्यते तत् व्यावृत्तं(क्षीण) येभ्यस्ते संपदा ॥७॥ पुनः "जिनेभ्यो"| रागादिजेतृभ्यः। पुनः "जापकेभ्यः" अन्पैरपि तान् रागादीन् जापयङ्ग्यः । पुनः "तीर्णेभ्यः” संसारसमुद्रम् (भवार्णवपारंगतेभ्यः)। पुनः "तारकेभ्यः" अन्येषामपि उपदेशवर्तिनाम् । पुनः “बुद्धेभ्यः" अज्ञान
॥२८॥
For Private and Personal Use Only