SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्वेतश्च सुमेरुप्रभनामा हस्ती अभूः । तत्र दवाग्निना भीतः सन् सरोवरे प्रविष्टः पङ्के मग्नो वैरिहस्तिना दन्तेविद्धः सप्तदिनानि व्यथां सहित्वा १३० वर्षाणि आयुः प्रपाल्य मृत्वा विन्ध्याचलपर्वते पुनश्चतुर्दन्तो रक्तवर्णः ७०० सप्तशतहस्तिनीनायको मेरुप्रभनामा हस्ती जातः । एकदा दावानलं दृष्ट्वा जातिस्मरणं समुत्पन्नम् । तेन योजनमानं स्थण्डिलं कृतम्, वारत्रयं तृणकाष्ठादिदूरीकरणेन शोधितम् । दावानले लग्ने सति अन्यैः जीवैः स्थण्डिले भृतेऽपि स्वयं स्थितः, कर्णमूले कण्डूयनार्थं पादः उत्पाटितः । तत्र पादस्थाने तत्क्षणे एवं शशकः स्थितः । त्वमपि कृपया तथैव स्थितो 'मा म्रियतां वराकः' इति । ततः सार्धद्वयदिने दाबानल उपशान्तः । शशादयो गताः, तदा दिनत्रयान्ते त्वं पादं मुञ्चन् गिरेः शृङ्गमिव धरित्र्यां पतितः । कृपया मृत्वा त्वं मेघकुमारो जातः । तदानीं हस्तिसङ्घट्टने पादतोलनेन न दुःखी जातः । अधुना साधुसङ्घट्टितो दुःखी भवसि ? एवं श्रीमहावीरदेवेन धर्मे स्थिरीकृतः । ततो मेघकुमारेण अभिग्रहो गृहीतः -- "अहं नेत्रद्वयं मुक्त्वा सङ्घहनादौ मनसाऽपि न दुःखं करिष्यामि ।" ततः तपः तस्वा मासिकीं संलेखनां कृत्वा विजये देवो जातः । ततः च्युत्वा महाविदेहे सेत्स्यति ॥ इति मेघकुमारष्ट्रष्टान्तः समाप्तः ॥ इति श्रीकल्पसूत्रस्य प्रथमं व्याख्यानं श्रीसमयसुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥ 20 এ [ १ अत्रैव प्रथमव्याख्यानस्य समाप्तिः समुचिता, तथैव बहुपु मूलादर्शेषु निर्देशवत्त्वात्, वाचकानामपि पाठे सुकरत्वाच्च । ] Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only *******
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy