________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्र कल्पलता व्या० १
www.kobatirth.org
॥ २७ ॥
इहलोक १ परलोक २ आदान ३ अकस्मात् ४ आजीविका ५ मरण ६ अश्लोकरूप ७ सप्तभयहरणात्। * मेघकुमार“चक्खुदयाणं" चक्षुरिव चक्षुः श्रुतज्ञानं तत्-दयन्ते । पुनः " मग्गदयाणं" मार्ग= सम्यक दर्शनादिकं दृष्टान्तः । मोक्षपथं दयन्ते । पुनः "सरणदयाणं" शरणं त्राणं बहुपद्रवैः पीडितानां तत्त्वतो निर्वाणं दयन्ते । पुनः * "जीवदयाणं" जीवनं जीवो भावप्राणधारणं अमरणधर्मत्वं दयन्ते । अथवा जीवेषु दया येषां ते । पुनः कचित् "मोहिदयाणं" इत्यपि दृश्यते, तत्र बोधि :- जिनधर्मप्राशिः तां दयन्ते संपदा ॥ ५ ॥ पुनः “धम्मदघाणं धर्म- देश सर्वचारित्ररूपं दयन्ते । पुनः “धम्मदेसयाणं" धर्मं श्रुतचारित्ररूपं देशयन्ति । पुनः "धम्मनाथगाणं" धर्मस्य क्षायिकज्ञानादिरूपस्य नायकाः तद्वशीकरणात् । पुनः “धम्मसारहीणं" धर्मरूपत्य रथस्य सारथय इव सारथयः, संयमतुल्यस्य रथस्य, आत्मतुल्यस्य रथिकस्य, प्रवचनतुल्यस्य तुरङ्गमस्य, सम्यकप्रवर्तनात् रक्षणाच ॥ अत्र मेघकुमारदृष्टान्तो यथा
श्रेणिको राजा, धारिणी राज्ञी, तयोः मेघकुमारः पुत्रः श्रीमहावीरवाणीं श्रुत्वा प्रतिबुद्धः, अष्टौ भार्याः त्यक्त्वा दीक्षां गृहीतवान् । रात्रौ प्रान्ते सुतस्य प्रविशद्भिः निर्गच्छद्भिश्च साधुभिः तथा सङ्घट्टितो यथा क्षणमपि निद्रां न प्राप । ततो विचारितं मेघकुमारेण-'अहो ! एकस्यां रात्रौ अहमेवं सङ्गहितः, तदा सदा इत्थं कदर्थनां ॥ २७ ॥ कथं सहिष्ये ?, ततः प्रातः प्रभुं पृष्ट्वा गृहस्थावासं श्रपिष्ये इति चिन्तयित्वा भगवत्समीपे गतः । तदा भगविना प्रोक्तम्-हि वत्स ! त्वं इतो भवात् तृतीये भवे वैताढ्यपर्वनष्टथिव्यां सहस्रहस्तिनां यूथपतिः षड्दन्तः
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only