________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्त्वाऽवबोधात् संपदा २। कुत एवम् । यतः “पुरिसुत्तमाणं" पुरुषोत्तमेभ्यः पुरुषेषु संसारेऽपि परार्थप्राधान्यम् १ खार्थगौणत्वम् २ औचित्यम् ३ अदीनभावत्वम् ४ कृतज्ञता ५ गाम्भीर्य च ६ इत्यादिगुणैरुत्तमाः,IX पुनरुत्तमत्वमेव उपमात्रयेण आह-"पुरिससीहाणं" पुरुषाः पुरुषेषु सिंहा इव कर्मशत्रुषु क्रूरत्वात् परीपहेषु सावही(हे)लनत्वात् उपसर्गेषु निर्भयत्वाच्च । पुन: "पुरिसवरपुंडरीयाणं" पुरुषाः वरपुण्डरीकाणि इव, पुण्डरीकाणि-धवलकमलानि यतो भगवन्तः कर्मपङ्के जाताः भोगजलैर्वर्धिताः ततः उभयमपि त्यक्त्वा जगलक्ष्मीनिवासा नृपादिसेव्याश्च जाताः, यद्वा वरपुण्डरीकाणि सेवकानां सन्तापहरत्वात् भूषाकृतित्वाच छत्राणीव । पुनः “पुरिसवरगंधहत्थीणं" पुरुषवरगन्धहस्तिभ्यः पुरुषा गन्धहस्तिन इव, यथा गन्धहस्तिनां गन्धेन अन्ये गजा भज्यन्ते, तथा भगवद्विहारेण ईतिमारिप्रमुखा उपद्रवा दूरतो यान्ति संपदा ॥३॥ पुनः ["लोगुत्तमाणं" लोकस्य भव्यलोकस्य मध्ये उत्तमाः, (३४) चतुस्त्रिंशत् अतिशयसहितत्वात् । पुनः "लोगनाहाणं" लोकस्य विशिष्टभव्यलोकस्य मध्ये नाथाः अलब्धसम्यक्त्वादेः प्रापणात्, योगस्य प्राप्तस्य रक्षणात् क्षेमस्य च कारित्वात् । पुन: "लोगहियाणं" लोकस्य एकेन्द्रियादिप्राणिगणस्य पञ्चास्तिकायात्मकस्य वा सम्यक् रक्षण-प्ररूपणाभ्यां हितेभ्यः। पुनः "लोगपईवाणं" लोकस्य-देशनायोग्यनरादिरूपस्य प्रदीपा इव प्रदीपाः तेभ्यः मिथ्यात्वतमोहरणात् । पुनः "लोगपज्जोअगराणं" लोकस्य लोकालोकरूपस्य प्रवचनप्रवतनेन प्रद्योत प्रकाशं कुर्वन्ति संपदा ॥४॥ पुनः "अभयदयाणं" प्राणान्तकारिष्वपि न भयं ददते, अथवा
For Private and Personal Use Only