________________
Shri Mahavir Jain Aradhana Kendra
***
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
निद्राप्रसुप्ते जगति बुद्धेभ्यः स्वयं तत्त्वं । पुनः "बोधकेभ्यः” अन्यानपि तत्त्वं बोधयन्तीति बोधकाः तेभ्यः ।। पुनः "मुक्तेभ्यः” बाह्याभ्यन्तरग्रन्धिबन्धनात् । पुनः "मोचकेभ्यः” परेषामपि तस्मात् संपदा ॥ ८ ॥ एतानि विशेषणानि भवावस्थामाश्रित्य उक्तानि, अथ सिद्धावस्थामाश्रित्य उच्यन्ते - पुनः "सर्व्वन्नूर्ण" सर्वविशेषरूपतया जानन्ति । पुनः " सङ्घदरिसीणं" सामान्यरूपतया पुनः पश्यन्ति, न तु वैशेषिकमतवत् जडाः । पुनः कीदृशे भ्यः । एवंविधं स्थानं प्राप्तेभ्यः । किंविशिष्टं स्थानम् ? | शिवम् निरुपद्रवम् । पुनः किंविशिष्टं स्थानम् ? | अचलम् | स्वभावप्रयोगकृतचलनाभावात् । पुनः किंविशिष्टं स्थानम् ? । अरुजम्, आधिव्याघ्यभावात् । पुनः किंविशिष्ट स्थानम् ? । अनन्तम्, अनन्तार्थविषयज्ञानस्वरूपत्वात्, अथवा अनन्तसुखादिरूपत्वात् । पुनः किंविशिष्टं |स्थानम् ? | अक्षयं अनाशम्, साद्यनन्तत्वात् । पुनः किंविशिष्टं स्थानम् ? । अव्याबाधम्, पीडाकारिकर्माभावात् । पुनः किंविशिष्टं स्थानम् ? । अपुनरावृत्ति, पुनः संसारे अवतरणाभावात् । पुनः किंविशिष्टं स्थानम् ? । सिद्धिगतिनामधेयम्, सिद्धि : = लोकान्तक्षेत्रम्, स चासौ गम्यमानत्वात् गतिश्च सैव नामधेयं यस्य तत् तादृशं स्थानं व्यवहारतः सिद्धिक्षेत्रं, निश्चयतो यथास्थितं स्वं स्वरूपं प्राप्तेभ्यः अशेषकर्मक्षयेण । "नमो जिणाणं" नमो जिनेभ्यः आद्यन्तकृतो नमस्कारो मध्यव्यापीति । पुनर्जितभयेभ्यो भवप्रपञ्श्चनिवृत्तेः संपदा ॥ ९ ॥ न चात्र पौनरुक्त्यम्, यतः “स्वाध्याये १ ध्याने २ तपसि ३ औषधे ४ उपदेशे ५ स्तुतौ ६ सद्गुणकीर्तने च वारं वारं कृतेऽपि पुनरुक्तदोषो न भवेत्" । अनेन जिनजन्मादिषु शक्रः स्तौति जिनान् इति शक्रस्तव उच्यते । अत्र
xxxxxxxxxxxx