________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मणिभिः चन्द्रकान्तादिभिः रत्नश्च कर्केतनादिभिः मण्डिते ये ते तथा। ततः पदचतुष्टयस्य कर्मधारयः।। एवंविधे पादुके मुक्त्वा, ततः एकखण्डशाटकमयं उत्तरासङ्गं वैकक्षं करोति, कृत्वा च अञ्जलिना मुकुलितो मुकुलाकृती कृती अग्रहस्ती येन, तीर्थङ्करस्य अभिमुखः सन् सप्ताष्टपदान् अनुगच्छति, ततः वामं जानु "अंचेइ दाहिणं जाणुं धरणियलंसि कह" पृथ्वीतले कृत्वा, "साह" इति पाठे तु संहृत्य=निवेश्य, "तिक्खुत्तो” त्रिकृत्वाचीन वारान् मस्तकं धरणीतले निवेश्य "ईसिं पचुन्नमई" ईषत् मनाक् प्रत्युन्नमति । ततः एवंविधे भुजे "साहरेइत्ति” ऊर्ध्व नयति स्तम्भिकोपमे करोति । कीदृशे भुजे ?। कङ्कण १ वाहुरक्षाभ्यां २ स्तम्भिते । ततः करतलाभ्यां परिगृहीतं कृतं "सिरसावत्तं" आवर्तनं आवर्तः, शिरसि आवतों यस्य सः तम् । मस्तके अञ्जलिं कृत्वा एवं अवादीत्नमुत्थु ण अरिहंताणं भगवंताणं, ॥ १॥ आइगराणं तित्थयराणं सयंसंबुद्धाणं ॥ २॥ पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसवरगंधहत्थीणं ॥३॥ लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं ॥ ४॥ अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं ॥ ५॥ धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचकवट्टीणं ॥ ६॥ दीवो ताणं सरणं गई पइट्ठा अप्पडि
For Private and Personal Use Only