________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० १ ॥ २३ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'हे भ्रातः ! हे महाश्रेष्ठिन् । मम गुरुः गैरिकतापसः तं त्वं परिवेषणेन भोजय ।' श्रेष्ठी प्राह-'अहं सम्यक्त्वघारी श्रावको न मम योग्यता, परं तव पुरवासित्वात् "रायाभिओगेणं” इति आगारसद्भावाच्च करिष्यामि' इति अङ्गीकृत्य, राज्ञो गृहे आगत्य, क्षैरेषी परिवेषयित्वा भोजितः । स च (गैरिकतापसः) भुञ्जानो निजाङ्गुल्या पृष्टोऽसीति श्रेष्ठिनं निर्भर्त्सयति स्म । श्रेष्ठी च तदा चेतसि चिन्तितवान्-'अहो ! यदा मया दीक्षा न गृहीता, तदा इयं मम हीलना जाता । ततः श्रीमुनिसुव्रतस्वामिसमीपे अष्टाधिकसहस्रवणिक्पुत्रैः सार्धं दीक्षा गृहीता । द्वादशाङ्गानि पठित्वा, द्वादशवर्षाणि दीक्षां पालयित्वा सौधर्मे प्रथमदेवलोके इन्द्रो जातः । गैरिकतापसश्च मृत्वा इन्द्रस्य ऐरावणवाहनत्वेन जातः इन्द्रं दृष्ट्वा पलायितः । इन्द्रेण धृतः इन्द्रोऽधिरूढः तदा मस्तकद्वयं चक्रे । इन्द्रेणापि रूपद्वयं कृतम्, एवं तेन मस्तकचतुष्टयं इन्द्रेणापि रूपचतुष्टयं ततोऽवधिना | ज्ञात्वा तर्जितः इन्द्रेण-' रे ! न जानासि त्वं गैरिको मम वाहनत्वेन जातः । ॥ इति कार्तिकश्रेष्टिकथा ॥
पुनः इन्द्रः कीदृशोऽस्ति ? “सहस्सक्खे” सहस्राक्षः, पञ्चमत्रिशतानि सन्ति तेषां प्रत्येकं अक्षिद्वय सद्भावात् सहस्रनेत्राणि तानि इन्द्रस्य राजकार्ये अक्षीणीव व्याष्टतानि सन्ति । पुनः कीदृशः ? मघवा । मघाः देवविशेषाः वा वशे सन्ति यस्य सः । पुनः कीदृशः ? "पागसासणे" पाकाः = वलवन्तोऽरयः, पाको वा (दैत्य) दानव विशेषः, तान् तं वा शास्ति । पुनः कीदृशः ? दक्षिणार्धलोकाधिपतिः । मेरोः दक्षिणतः सर्वस्य तदायत्तत्वात् । पुनः | कीदृशः १ ३२ द्वात्रिंशलक्ष विमानाधिपतिः । पुनः किंभूतः ? “ऐरावण" ऐरावणरूपः सुरो वाहनं यस्य सः । पुनः
For Private and Personal Use Only
1-01-10
कार्तिक
श्रेष्ठि
कथानकम् ।
॥ २३ ॥