________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आणं, सत्तण्हं अणीआहिवईणं, चउण्हं चउरासीए आयरक्खदेवसाहस्सीणं, अन्नेसिं च वहणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भहित्तं महत्तरगत्तं अणाईसरसेगावचं कारेमाणे पालेमाणे महयाहयनदृगीयवाइअतंतीतलतालतुडियघणमुइंगपडुपडहवाइयरवेणं दिवाइं भोगभोगाइं भुंजमाणे विहरइ ॥ १३॥ व्याख्या-"तणं कालेणं ति” तस्मिन् काले, तस्मिन् समये शक्रस्य आसनविशेषस्य अधिष्ठाता (स्वामी)। ततः शक्रः देवानां मध्ये परमैश्वर्यात् इन्द्र इति देवेन्द्र देवेषु राजा, कान्त्यादिभिः अधिकं विराजमानत्वात् इति देवराजः, वज्रं पाणी-हस्ते यस्य स वज्रपाणिः । असुरादिपुराणां दारणात्-विदारणात् इति पुरन्दरः। शतं क्रतवो अभिग्रहविशेषाः पश्चमप्रतिमानां कार्तिकभवे यस्य स शतक्रतुः। कार्तिकश्रेष्ठिसम्बन्धस्तु एवम्पृथिवीभूषणं नाम पुरम् , प्रजापालो राजा कार्तिकनामा श्रेष्ठी राजमान्यो महर्द्धिकः परमजैनश्रावकः, तेन श्रेष्ठिना श्राद्धप्रतिमानां शतं कृतम्, तेन शतक्रतुरिति लोके प्रसिद्धिर्जाता । अन्यदा मासोपवासी गैरिकनामा परिव्राजकः समागतः। सर्वोऽपि राजादिको नगरलोकः परमभक्तो जातः, परं कार्तिकः श्रावकः तेन गैरिकं न मन्यते, तद्वृत्तान्तं ज्ञात्वा, गैरिको रुष्टो राजानं प्राह-हे राजन् ! अहं तव गृहे पारणं तदा करोमि यदा कार्तिकश्रेष्ठी मम भुञ्जानस्य परिवेषयति। तदा राजा श्रेष्ठिगृहे गतः, श्रेष्ठिना सत्कृत्य प्रयोजनं पृष्टः राजा प्राह
For Private and Personal Use Only