________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कीदृशः १ "सुरिंदे" सुराणां इन्द्रः आह्लादकत्वात् । पुनः किंभूतः ? अरजांसि = निर्मलानि अम्बर-वस्त्राणि स्वच्छतया आकाश सदृशानि वस्त्राणि घरति । पुनः कीदृश: ? "आलइय मालमउडे" आलिङ्गि यथास्थानं स्थापितौ माला-मुकुटौ येन सः । पुनः कीदृशः १ नवाभ्यामिव हेम्नः सत्काभ्यां चारुभ्यां आश्चर्यकारिभ्यांचंचलाभ्यां इतस्ततः चलनरूपाभ्यां कुंडलाभ्यां विलिष्यमानौ गल्लौ यस्य सः । पुनः किंभूतः ? । “महड्डीए" महती ऋद्धिः छत्रादिराजचिन्हरूपा यस्य सः । “महज्जुई" महती द्युतिः कान्तिः आभरणादीनां द्युतिर्वा समग्रोचितवस्तुप्राप्तिर्यस्य सः "महबले " महत् बलं यस्य सः । "महायसे " महान्यशो यस्य सः । “महाणुभावे" महान् अनुभावः = प्रभावो यस्य सः । "महसुक्खे” महद्देवसम्बन्धि सौख्यं यस्य सः । “भासुरबोंदी" भासुरा - दीप्तिमती योंदिः - वपुः यस्य सः । “पलंबवणमालधरे" प्रलम्बा वनमाला = आभरणविशेषः पादान्तलम्बिनी पञ्चवर्णा पुष्पमाला यस्य सः । ईदृशः सन् सौधर्मे देवलोके सौधर्मावतंसके विमाने सुधमांसभायां शक्रे सिंहासने स इन्द्रः, 'णं' वाक्यालङ्कारे तत्र आर्षत्वात् स्त्रीत्वं, ३२ लक्षविमानानां, ८४ सहस्रसामानिकसुराणां तथा ३३ त्रयस्त्रिंशानां देवानां पूज्यस्थानीयानां मत्रिकल्पानां वा । तथा चतुर्णां सोन १ यम २ वरुण ३ कुबेराणां ४ लोकपालानां, तथा अष्टानां अग्रमहिषीणां पद्मा १ शिवा २ शची ३ अंजू ४ अमला ५ अप्सरा ६ नवमिका ७ रोहिणी ८ नाम्नीनां सपरिवाराणां तथा तिसृणां पर्षदां-अभ्यन्तर १ मध्यम २ बाह्य ३ रूपाणां तथा सप्तानां अनीकानां गन्धर्व १ नट २ हय ३ गय ४ रह ५ भड ६ वसह ७ रूपार्णा,
For Private and Personal Use Only
*By-By-BY-3-07-BY-XCXXX