________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
व्याख्या-सोऽपि बालक उन्मुक्तबालभावः सातोऽष्टवर्षः, पुनर्विज्ञातं-विज्ञानं परिणतमानं यस्य सः। कापि "विणयेति"पाठः, तत्र विज्ञ एव विज्ञका, सचासौ परिणतमात्रश्च फलादिषु इति गम्यम् । पुनः यौवनकमनुप्राप्तः सन् । एतेषां ऋग्वेद १ यजुर्वेद २ सामवेद ३ अथर्वण ४ वेदानाम् , अत्र प्राकृतत्वात् षष्ठीलोपः। किंविशिष्टानां वेदानाम् ? । इतिहासपुराणं पञ्चमं येषां ते। पुनः किंविशिष्टानां वेदानां निघण्टुर्नाममाला षष्ठा येषां ते। पुनः किंभूतानां वेदानाम् । साङ्गोपाङ्गानां अझैः उपाङ्गैश्च सहितानाम् । तत्र अङ्गानि-शिक्षा १ कल्प २ व्याकरण ३ छन्दो ४ ज्योति ५ निरुक्तयः ६षडिति, उपाङ्गानि-तेषां एव अङ्गानां प्रपश्चनपराः प्रबन्धाः। किंभूतानां । वेदानाम् ? । सरहस्यानांऐदंपर्यसहितानाम् , सारका अध्यापनेन प्रवर्तकः स्मारको वा विस्मृतस्य मारणात् । पुनः पारगः पर्यन्तगामी, धारक अधीतान् धारयितुं क्षमः। कचित् “वारए" इति पाठः, तत्र-वारका, अशुद्धपाठनिषेधात् । पुनः षडङ्गवित्-शिक्षादि विचारका, ज्ञानार्थे तु पौनरुत्तयं न स्यात् । पुन: षष्टिरास्तब्रिता अत्रेति षष्टितन्त्रम् कापिलीयशास्त्रम् तत्र विशारदः। पुनःसंख्याने संकलितव्यवकलितादिगणितस्कन्धे । "सिक्खाणे"त्ति शिक्षामणतिम्प्रतिपादयति शिक्षाणं-आचारशास्त्रम् , तत्र शिक्षा च अक्षरखरूपनिरूपकं शास्त्रम् , कल्पश्च यज्ञादिसमाचारीवाचकं चेति शिक्षाकल्पम् । तत्र पुनः व्याकरणे शन्दलक्षणशास्त्रे, छन्दसिपद्यलक्षणनिरूपकशास्त्रे, निरुक्ते पदभञ्जने । पुनः ज्योतिषां अयने ज्ञाने ज्योति शास्त्रेषु इत्यर्थः । अन्येष्वपि यहुषु ब्राह्मणकेषु वेदव्याख्यानरूपेषु ब्राह्मणसंबन्धिषु ब्राह्मणहितेषु वा परिव्राजकदर्शनप्रसिद्धेषु नयेषु
पुनः पावरहस्यानां ऐदंपर्यापडिति, उपा
For Private and Personal Use Only