________________
Shri Mahavir Jain Aradhana Kendra
*-*-*-*-**->
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवन्ति, स दीर्घायुः स्यात् । पुनर्यस्य भाल १ हृदय २ मुखानि ३ विस्तीर्णानि भवन्ति स राजा स्यात् । पुनर्यस्य ग्रीवा १ जना २ पुरुषचिन्हं ३ लघु स्यात्, सोऽपि राजा स्यात् । पुनर्यस्य स्वर १ नाभि २ सत्त्वानि ३ गम्भीराणि भवन्ति, स सप्तसमुद्रान्तपृथ्वीपतिः स्यात् इति ३२ लक्षणानि प्राकृतमनुष्याणाम् । बलदेववासुदेवानां एकशतं अष्टौ च लक्षणानि भवन्ति । चक्रवर्तितीर्थङ्कराणां तु एकसहस्रं अष्टौ च लक्षणानि भवन्ति, यानि हस्तपादादौ स्फुटं प्रकटतया दृश्यन्ते । व्यञ्जनानि मष-तिलकादीनि तेषां गुण: = प्रशस्तता, तेन उपपेतम् उप १ अप २ त ३ इति शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनात् उपपेतं इति स्यात् । यद्वा सहजं लक्षणं पञ्चाद्भवं व्यञ्जनं, गुणाः = सौभाग्यादयः तैः सहितम् । पुनः किंविशिष्टं पुत्रम् ? | मानेन १ उन्मानेन २ प्रमाणेन ३ च प्रतिपूर्णानि = अन्यूनानि सुजातानि= सुनिष्पन्नानि सर्वाण्यङ्गानि शिरःप्रभृतीनि यस्मिन् तत् तथाविधं सुन्दरं अ-शरीरं यस्य स तम् । तत्र जलभृतकुण्डिकायां यस्मिन् नरे प्रविष्टे जलस्य द्रोणो बहिः पतति स मानोपेतः । द्रोणमानं यथा-द्विशतषट्पञ्चाशत् २०६ पलप्रमाणं द्रोणमानं ॥ १ ॥ तथा यस्तुलारूढोऽर्ध भारं तुलति स उन्मानोपेतः । भारमानं यथा-षभिः सर्षपैरेको यवः, त्रिभिर्यवैरेको गुञ्जः स्यात् । त्रिभिर्गुञ्जाभिः एको वल्लः स्यात्, षोडशभिर्वलैः एकः गद्याणः स्यात्, दशभिर्गद्याणैरेकं पलं स्यात् पलानां सांर्धशतेन मणः स्यात् दशभिर्मणैः एका धटिः स्यात्, दशभिर्धटिभिः एको भारः स्यात् ।
१. जलदोणमद्धभारं, सुमुहाई समूसिओ जो न च ओ । माणुम्माणपमाणं, तिविहं खलु लक्खणं नेयं || १ || संदेहवि० ।
For Private and Personal Use Only