________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता व्या० १
॥ १९ ॥
•X X X XXXX X X *•*•*•
www.kobatirth.org
माणुम्माणपमाणपडि पुन्न सुजायसवंगसुंदरंगं ससिसोमाकारं कंतं पिअदंसणं सुरूवं देवकुमारोवमं दारयं पयाहिसि ॥ ८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-हे देवानुप्रिये ! त्वया उदारादि विशेषणोपेताः खमा दृष्टाः पुनः आरोग्यं = नीरोगता, तुष्टिः = सन्तोषः दीर्घायुः चिरंजीवित्वं तेषां कारकाः स्वप्ना दृष्टाः । अथ तेषां फलमाह - हे देवानुप्रिये ! अर्थ-लाभादयः तव भविष्यन्ति इति शेषः । पुनः एवंरूपान् उक्तफलसाधनसमर्थान् स्वप्नान् त्वं दारकं पुत्रं प्रजनिष्यसीति सम्बन्धः । परं कदा ? । नवसु मासेषु प्रतिपूर्णेषु । पुनः अर्ध अष्टमं येषु रात्रिदिवसेषु = अहोरात्रेषु एतावता नवमासेषु सार्व सप्तदिनेषु च गतेषु किंविशिष्टं पुत्रं ? । सुकुमारपाणिपादं सुकुमारौ पाणिपादौ हस्तचरणौ यस्य तं । पुनः किंविशिष्टं पुत्रं ? । अहीनानि लक्षणतः प्रतिपूर्णानि स्वरूपतः पञ्चेन्द्रियाणि यस्मिन् तत् तथाविधं शरीरं यस्य तम् । पुनः किंविशिष्टं पुत्रम् ? । लक्षणानि स्वस्तिकचक्रादीनि इह सामान्यपुरुषाणां मध्ये उत्तमनरस्य ३२ लक्षणानि भवन्ति । तद्यथा-यस्य नख १ चरण २ हस्त २ जिव्हा ४ ओष्ट ५ तालु ६ लोचनान्तानि ७ रक्तानि भवन्ति, स सप्ताङ्गलक्ष्मीं भजति । यस्य कक्षा १ हृदय २ हनु ३ नासिका ४ नख ५ मुखानि ६ उन्नतानि भवन्ति तस्य उन्नतयो जायन्ते । पुनर्यस्य दन्त १ त्वक् २ केश ३ अङ्गुलीपर्व ४ नखाः ५ सूक्ष्मा भवन्ति, तस्य धनं प्रभूतं स्यात् । पुनर्यस्य अक्षि १ स्तनान्तर २ नासा ३ हनु ४ भुजाः ५ दीर्घा
For Private and Personal Use Only
SEXKO
द्वात्रिंशलक्षणानि ।
॥ १९ ॥