________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ततश्चतुर्दश स्वप्नान् एतादृशान् दृष्ट्वा प्रतिवुद्धा समाना देवानन्दा ब्राह्मणी कीदृशी जाता? इत्याह-हृष्टा विस्मिता, तुष्टा-तोषवती, आनन्दितत्वात् । आनन्दितं चित्तं यस्याः सा चित्तानन्दिता, मकारःप्राकृतत्वात्, अथवा हृष्ट-विस्मितम् , तुष्टं तोषवत्-चित्तं यत्र तत्तथा, तद्यथा भवति एवं आनन्दिता। प्रीतिः आप्यायनं मनसि यस्याः सा प्रीतिमनाः परमं सौमनस्यं जातमस्याः सा, परमसौमनस्थिता हर्षवशेन विसर्पत-विस्तारयायि हृदयं यस्याः सा तथा, एकाथिकानि एतानि हर्षाधिक्यप्रतिपादनार्थत्वात् । धाराभिमेघवारिधाराभिः आहतं यत् कदम्पपुष्पं तदिव समुच्छसितानि उद्धषितानि रोमाणि कूपेषु-रोमरन्ध्रेषु यस्याः सा । अथ देवानन्दा एतादृशी सती किं करोति ? इत्याह-देवानन्दा ब्राह्मणी खमानां स्मरणं करोति, “विशिष्टफलादि विभावयतीत्यन्ये,” स्मरणं कृत्वा शय्यातः उत्तिष्ठति । अत्वरितं मानसौत्सुक्याभावेन, अचपलं कायतश्चापल्पस्याभावेन, असम्भ्रान्तया अस्खलन्त्या राजहंससदृशया गत्या कृत्वा, यत्र स्थाने ऋषभदत्तो ब्राह्मणः तत्र आगच्छति, आगत्य च ऋषभदत्तं ब्राह्मणं वापयति । केन कृत्वा ? जयेन, जयः परैः अनभिभूयमानता प्रतापवृद्धिश्च तेन, विजयः परेषां असहमानानां अभिभवः तेन । अथवा जयः स्वदेशे, विजयः परदेशे, वापयित्वा । भद्रासने उपविष्टा सती कीदृशी जाता?"आसत्या" आश्वस्ता, गतिजनितश्रमाभावात् । पुनः किंभूता?? "वीसत्था" विश्वस्ता सलोभाभावात् अनुत्सुका। पुनः किंभूता?। "सुहासनवरगया"=सुखेण सुखं * वा शुभंबा आसनवरं गता या सा, एवंविधा सती मस्तके अंजलिं-मुकुलितकमलाकारं कृत्वा एवं अवादीत्
For Private and Personal Use Only