________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
राजा तस्य लघुभ्राता विशाखभूतिः युवराजा । तस्य पुत्रो विश्वभूतिनामा जातः । पितृव्यवञ्चनया जातवैराग्यो दीक्षा लात्वा, मथुरायां गवा सङ्घहने पितृव्यपुत्रस्य विशाखनन्दिनः सैनिकरुपहासहीलणाकरणे निदानं कृतवान् । कोटिवर्षायुः वर्षसहस्रं दीक्षां पालयति स्म ॥ इति सप्तदशो भवः॥१७॥ ततो महाशुक्रे सप्तमे देवलोके सप्तदशसागरोपमायुर्देवो जातः ॥ इति अष्टादशो भवः ॥१८॥ ततश्युत्वा पोतनपुरे प्रजापतिमृगावत्योः पुत्रः त्रिपृष्ठनामा वासुदेवो जातः । विशाखनन्दिजीवं सिंह विदारितवान् । शय्यापालककणे वपु तप्तं क्षिप्त्वा, त्रिखण्डं साधयित्वा, उग्रं कर्म बद्धा चतुरैशीतिवर्षलक्षायुर्जीवति स्म ।। इति एकोनविंशतितमो भवः ॥ १९ ॥ ततो मृत्वा ससमनरके नारको जातः ॥ इति विंशतितमो भवः ॥ २०॥ ततः उद्धृत्य सिंहो जातः ।। इति एकविंशतितमो भवः ॥ २१॥ ततश्चतुर्थ नरकं गतः॥ इति द्वाविंशतितमो भवः ॥ २२ ॥ ततो भवं भ्रान्तः। अत्र संवत् १३१४ वर्षे श्रीदेवभद्रकृते श्रीवीरचरित्रे एवमुक्तमस्ति । एकदा नयसारजीवो भवं भ्रमन् रथपुरनगरे प्रियमित्रो राजा, विमला राज्ञी,तयोः पुत्रो विमलश्रीनामा जातः। सकलकलाकुशलस्य(तस्य) पित्रा राज्यं दत्तम् । एकदा बने क्रीडन् पाशबद्धं मृगं मोचितवान्। तेन अनुकम्पागुणेन भद्रकतया च मानु*ष्यायुद्धम् । प्रान्ते दीक्षां गृहीत्वा उग्रं तपस्तत्वा, चक्रवर्तिपदवीभोग्यं च कर्म उपाय॑ मासिकी संलेखना कृतवान् ॥ इति त्रयोविंशतितमो भवः ॥ २३ ॥ ततः पश्चिममहाविदेहे मूकानगर्या धनञ्जयो नाम राजा, धारिणी राज्ञी, तयोः पुत्रः प्रियमित्रनामा चक्रवर्ती जातः। तत्रभवे त्रुटितांगमायुः पालितम् । तत्प्रमाणं यथा
For Private and Personal Use Only