SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ द्वितीयं व्याख्यानम् ॥ तत्र प्रथमव्याख्याने श्रीपञ्चपरमेष्ठिनमस्कारःश्रीमहावीरदेवस्य संक्षेपवाचनया षट्कल्याणकानि(च) व्याख्यातानि, द्वितीयवाचनायां श्रीमहावीरदेवस्य च्यवनकल्याणकं गर्भापहारकल्याणकं च व्याख्यायते ॥ तत्र प्रथमं श्रीमहावीरदेवजीवेन यस्मिन् भवे सम्यक्त्वं लब्धम्, तत आरभ्य स्थूला भवा लोकप्रसिद्ध्या सप्तविंशतिः २७ विशेषग्रन्थानुसारेण अष्टाविंशतिः च कथ्यंते, तथाहिग्रामेशस्त्रिदशो मरीचिरमरः षोढा परिव्राट् सुरः, संसारो बहु विश्वभूतिरैमरो नारायणो नारकः । सिंहो" नैरयिको भवेषु बहुशश्चक्री सुरो नन्दनः, श्रीपुष्पोतरनिर्जरोऽवतु भवाद् वीरस्त्रिलोकीगुरुः ॥ १ ॥ पश्चिममहाविदेहे नयसारो ग्रामचिन्तकोऽभूत् । तेन मार्गभ्रष्टानां साधूनां वने शुद्धाहारो दत्तः, तत्र सम्यक्तवं लब्धम् ।। इति एको भवः ॥ १॥ ततः सौधम्म देयो जातः॥ इति द्वितीयो भवः ॥२॥ ततो मरीचिनामा ऋषभदेवपात्रो भरतस्य पुत्रो जातः, तत्र पूर्व दीक्षां लात्वा, ततो दीक्षां त्यक्त्वा, त्रिदण्डी भूत्वा, मदेन नीचैर्गोत्रं कर्म बद्धवा कपिलाने उत्सूत्रप्ररूपणेन सागरोपमकोटाकोटीभवभ्रमणमुपार्जितवान् ॥ इति कल्प०३ For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy