________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रे
॥ २९२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रोचुः- “भो यतयः ! यूयं वरमिहागताः, चिरं च स्थातव्यं भवदर्थं क्रियमाणमृष्टान्नपानेन अस्माकमपि मुखं सृष्टं जायते । अथ श्रीगुरुभिरपि उपयोगो दत्तः, सांप्रतं कथं श्रावका विशेषपर्व विनाऽपि सृष्टान्नपानादि प्रयच्छन्ति ।" ततो ज्ञातं जैनद्वेषिणा पुरोहितेन एषा अनेषणा व्यधायि । ततः "संकिलेसकरं ठाणं, दूरओ परिवञ्जए" इति विचार्य भृगुकच्छपुरात् विहृत्य अन्यत्र देशेषु संयमं प्रतिपालयन्ति स्म । अत्रैकस्यां | संस्कृतकथायां मगहेसुकथायां च बलमित्र - भानुमित्रयोः सम्बन्धः एवं-उज्जयिन्यां बलमित्र - भानुमित्रराजानौ बभूवतुः । तदाग्रहात् श्रीकालिकाचार्याः चतुर्मास्यां तत्र तस्थुः । तत्र च स्वभगिन्याः पुत्र्याः पुत्रं तयोः भागिनेयं च बलभानुनामानं तयोः अनुमतिं विनाऽपि प्रत्राजयामासुः । ततो बलमित्र - भानुमित्रादयो विमनस्का जाताः । अग्रे सम्बन्धः सदृश एव परं तत्त्वं तत्त्वविदो विदन्तीति । इत्युक्ताः एके श्रीकालिकाचार्याः ॥
For Private and Personal Use Only
*•*•*•XoXoXoX
कालिकाचार्यकमा
अथ ये श्रीकालिकाचार्याः श्रीवीरनिर्वाणात् ९९३ वर्षे जाताः ते विहरन्तो दक्षिणदेशे प्रतिष्ठानपुरे जग्मुः । तत्र शालिवाहननामा राजा जैनः परमश्रावको यतिभक्तो राज्यं करोति । गुर्वागमनं श्रुत्वा हृष्टः सन् गुरोः समीपे गत्वा वंदित्वा अत्याग्रहं कृत्वा गुरवः चतुर्मास्यां स्थापिताः । अथ राजा सदा धर्मोपदेशं शृणोति, गुरुभक्ति च करोति, देवगृहेषु स्त्रात्रमहोत्सवाः क्रियन्ते । एवं च सति श्रीपर्युषणापर्व अत्यासन्नं समागतं । तदा राज्ञा पृष्टं - "हे भगवन् ! श्रीपर्युषणापर्व कदा भावि ।" तदा गुरुभिः प्रोचे - " भाद्रपदसुदिपञ्चम्यां भविष्यति ।" तदा राजा प्राह - " हे खामिन् ! * पञ्चम्यां अस्माकं कुलक्रमागतः, इन्द्रमहोत्सवः स तु अवश्यं कर्तव्य एव । एकस्मिन् दिने तु पर्वद्वयं कर्तुं न शक्यते, परस्परं भिन्नाचारत्वात् ।” ततः प्रसादं कृत्वा श्रीपर्युषणापर्य षष्ठ्यां क्रियते । तथा पूजा-स्नात्र - पौषधादीनि धर्मकृत्यादिनि प्रभूतानि भवन्ति ।" ततो गुरुभिः प्रोचे - "हे राजेन्द्र ! ॥ २९२ ॥ पञ्चमीरात्रि उल्लङ्घ्य न कदाऽपि पर्युषणा भवति । यदुक्तं - "अविचलइ मेरुचूला, सूरो वा उग्गमेह अवराए। नय पंचमीहरयणि पजोसवणा अइक्कमइ ॥ १ ॥ कल्पसूत्रे ऽपि "नो से कप्पड़ तं स्यणि उवाइणावित्तए ।” ततो राज्ञा प्रोक्तं- "हे पूज्य ! तर्हि चतुर्थ्यां क्रियतां ।” ततः