________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
साधुप्रत्यनीको नमुचिः हतः, २ अपि च आचार्यरक्षां कुर्वद्भिः रात्रिप्रतिजागरिकैश्चतुर्भिः साधुभिः यामचतुष्टये चत्वारः सिंहा व्यापादिताः ३,* अथवा साधुभिः परस्परं क्रियमाणमत्स्योत्पत्त्याम्नायवार्ता श्रुत्वा प्रभूतमत्स्योत्पादकं मासिकं वैक्रियसिंहेन हृतवन्तः साधवः ४ पुनरपि आगामिभवे सुमङ्गलसाधुः साधुप्रत्यनीक विमलवाहनं सबाहनं भस्मसात् करिष्यति, मोक्षं च यास्पति इत्यादयो बहवो दृष्टान्ताः वाच्याः। इति जिनशासनप्रत्य[नीकोच्छेदनेन महाप्रभावकाः श्रीकालिकाचार्याः संजाताः। अथ तस्मिन् [अवसरे भृगुकच्छनगरे श्रीकालिकाचार्यभागिनेयौ बलमित्र-भानुमित्रराजौ | स्तः । ताभ्यां निजसेवकान् मुक्त्वा श्रीगुरूणां एवं विज्ञप्तं-"हे भगवन्! श्रीमद्भिः कृपां कृत्वा अत्र समागम्यतां, बहुजीवप्रतियोधेन महान् लाभो भविष्यति ।" ततः श्रीपूज्या विज्ञप्ति अवधार्य लाभं च विभाज्य, प्रामानुमाम विहरन्तो भृगुकच्छनगराभ्यणे समाजग्मुः । बलमित्र-भानुमित्राभ्यां
अपि सम्मुखमागत्य महताऽऽडम्बरेण प्रवेशोत्सवं कृत्वा धर्मशालायां उत्तारितः । अथ राजा प्रत्यहं जैनधर्ममर्माणि शृणोति, हृष्टः सन् मध्येसभायां | जिनधर्म प्रशंसति, बक्ति च-"अहो ! अद्य काले बहवो धर्माः सन्ति, परं हिंसादि दोषदुष्टत्वात् पाखण्डरूपाः, परं जिनधर्मसमानो न कोऽपि
दयामयो धर्मः" इत्यादि जिनधर्मप्रशंसां श्रुत्वा पुरोहितमस्तके शूलमुत्थितं, विचारिसं चानेन-"अहो ! राजा मा जैनधर्मी भवतु, तथा च सति मम |वृत्तिभङ्गो भविष्यति । ततो वादं कृत्वा (एन) मानभ्रष्टं करोमि ।" इति सभासमक्षं बादे कृते गुरुभिः जीवादितत्त्वप्रश्नोत्तरैः निरुत्तरीकृतः । परं अंतर्दुष्टो जानाति-"कथमप्ययं आचार्यः इतो विहत्य अन्यत्र याति तदुपायं करोमि" इति विचार्य राज्ञोऽये प्रोवाच-“हे राजन् ! एते आत्मीया मन्तो गुरवः, एतेषां अरसविरसाद्याहारो न देयः, यतः पापं लगति । ततः श्रावकान् आहूय प्रच्छन्नं वाच्यं, यदुत गुरूणां क्षीर-खाण्डवृत मोदक घृतपूरकुण्डलाकृतिप्रभृति-मृष्टान्नपानाहारो देयः । यद् विलोक्यते [युज्यते] तत् मम भाण्डागारात् प्राझं ।" ततो राज्ञाऽपि परमभक्तेन तथैव | कारितं । अथ च यदा यतयो गोचरी गच्छन्ति तदा प्रतिगृहं श्रावकाः मृष्टान्नपानः प्रतिलाभयन्ति | एकदा गोचरीगतान् साधून् प्रति बालकाः
For Private and Personal Use Only