________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
युक्त, महावीरः कर्मशत्रुजयात् सार्थकनामा। "पंचहत्थु" हस्त उत्तरो यास ता हस्तोत्तरा उत्तराफाल्गुन्यः हस्तात् उत्तरदिशि वर्तमानात् वा ताः पञ्चसु च्यवनादिकल्याणकेषु यस्य स पञ्चहस्तोत्तरः। निर्वाणस्य तु स्वाती *संभूतत्वात्, समासे हस्तोत्तरा इति बहुवचनं बहुकल्याणकापेक्षं 'होत्था' इति अभवत्, अथ सूत्रं-"तं जहा-"
हस्तोत्तरायां उत्तराफाल्गुन्या नक्षत्रे च्युतो देवलोकात् च्युत्वा च गर्भ व्युत्क्रान्तः॥१॥ हस्तोत्तरायामेव एकस्मात् गर्भात् अन्यस्मिन् गर्भे “साहरिए" त्ति सङ्कामितः॥२॥ हस्तोत्तरायां जातः ॥ ३॥ हस्तोत्तरायां "मुंडे"त्ति-द्रव्यतो भावतश्च मुण्डितो भूत्वा, अगारात्गृहवासात् निष्क्रम्य इति गम्यम् , अनगारतांसाधुतां प्रत्रजिता प्रकर्षण गतः॥४॥ हस्तोत्तरायां "केवलवनरनाणदंसणे समुप्पन्ने केवलं असहायं अत एव वरं ज्ञानं च दर्शनं चेति, ततःप्राक्पदाभ्यां कर्मधारयः । ज्ञान विशेषाऽवबोधरूपं दर्शनं सामान्यावबोधरूपं । परं कीदृशे ज्ञानदर्शने ? अनन्ते अनन्तार्थविषयत्वात् , अनुत्तरे सर्वोत्तमत्वात्, निर्व्याघाते कटकुव्याद्यप्रतिहत्वात्, निरावरणे क्षायिकत्वात्, कृत्स्ले सकलार्थग्राहत्वात् , प्रतिपूर्णे सकलखांशसमन्वितत्वात् राकाचन्द्रमण्डलवत् ॥५॥ रिष्यसि तदाऽऽनीतमपि न दास्यामि, स तया लोलुपतया पठति श्रावकोऽपि पानीयं गृहीत्वाऽऽगतः, अधुना पास्यामीति नमस्कार
घोषयत एव निर्गतो जीवः, यक्ष आयातः । श्रावकस्तैर्मनुष्यैहीतश्चौरभक्तदायक इति, राज्ञे निवेदितं, भणति-एनमपि शूले भिन्त, Kआपात नीयते, यक्षोऽवधि प्रयुक्ते, पश्यति श्रावकमात्मनश्च शरीरकं, पर्वतमुत्पाट्य नगरस्योपरि स्थित्वा भणति-श्रावकं भट्टारकं न *
जानीथ ?, क्षामयत, मा भवतः सर्वाश्चचुरं, देवनिर्मितेन (वात् चैत्यात् ) पूर्वस्यां तस्यायतनं कृतं । एवं फलं लभ्यते नमस्कारेणेति ।
For Private and Personal Use Only