________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
XXXXXXXXXXXXX
समागतो। तदा चन्दना-मृगावतीप्रमुखा अपि आसन् । चन्दना तु अस्तसमयं ज्ञात्वा तत उत्थाय स्वकीयोपाश्रये गता, मृगावती तु भगवद्दर्शनमोहिता स्थिता । ततः चन्द्रसूर्ययोः स्वस्थानं गतयोः अन्धकारः सर्वत्र प्रसृतः। ततो मृगावत्यपि चन्दना अपश्यन्ती एकाकिनी भीता सती उपाश्रये समागता, ईर्यापथिकी प्रतिक्रम्य शयनस्थां प्रवर्तिनी चन्दनां प्रणम्य पादौ विश्रामयन्ती प्रोचे-"भम अपराधः क्षम्यतां ।” चन्दनापि तां प्रोचे-“हे भद्रे! उत्तमकुलोत्पन्ने ! न युक्तं तव ईदृशं कर्तु।” ततो मृगावती प्रोचे-"मया पापं कृतं, मिथ्या मे दुष्कृतं, अतः परं न ईदृशं कर्म करिष्यामि" इत्युक्त्वा पादयोः पपात । ततः चन्दनाया निद्रा समागता, मृगावत्यास्तु मनःशुद्ध्या मिथ्यादुष्कृतं ददत्या केवलज्ञानं समुत्पन्नं-"अन्धकारे घोरे सर्प आगच्छन्तं ज्ञात्वा चन्दना हस्तं उत्क्षिप्य संस्तारके मुक्तः। ततः प्रबुद्धया चन्दनया प्रोक्तं-"किम् ?" इति । मृगावत्योक्तं-"मा सर्पस्पर्शी भवतु" इति । चन्दनयोक्तं-"क सर्पः ?।" सुगावत्योक्तं-"एष याति।" चन्दना प्राह"अहं न पश्यामि, त्वं पश्यसि ?, किं तव सातिशयं ज्ञानं?" तयोक्तं-"ओम्" इति । "किं केवलज्ञानं ? " तयोक्तं-"एवं एव । चन्दनाया अपि-"अहो! मया केवलिन्या आशातना कृता, अनित्यभावनां भावयन्त्याः केवलज्ञानं उत्पन्नं, एवं मिथ्यादुष्कृतं देयं । परं न कुम्भकार-क्षुल्लकयोः इव ।” तत्सम्बन्धो यथाकोऽपि शिष्यो लघुवालखभावेन चञ्चलत्वात् कुम्भकारभाण्डानि काणीकुर्वन् वारितोऽपि न तिष्ठति, उपा-18 लम्भे दत्ते मिथ्यादुष्कृतं ददाति । ततः कुम्भकारोऽपि कर्णयोः कर्करिकां क्षित्वा भृशं निःपीड्य दुष्कृतं ददाति ।
For Private and Personal Use Only