SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०९ ॥२७३॥ वदन्ति 'अस्माभिः श्रुतं आसीत् एकेन वृषभेन गत्री अभूत्।" ततो दुःखितो गनः स्वस्थानं, परं तेन क्रोधकुम्भकारेण क्रोधेन सप्तवर्षाणि यावत् क्षेत्रस्खलानि धान्यसहितानि ज्वालितानि । ततो यक्षयात्रार्थ मिलिते क्षामणादिलोके पटहघोषः कारित:-"अन्नं अस्माकं यो दहति स प्रकटीभवतु।" ततः स कुम्भकारो वेषविपर्ययं कृत्वा दृष्टान्ताः प्रोवाच-"एगवइल्ला गड्डी पासह तुम्हे वि डज्झइ खलाइ ।” ततो लोकैः वृषभहरणकारणं ज्ञात्वा प्रोक्तं“भो! दीयतां कुम्भकारस्य वृषभः, नो चेत् अन्यान्यपि सप्त वर्षाणि धान्यानि धक्ष्यति ।" ततो दत्तो वृषभः, क्षामितः कुम्भकारः, तस्मात् पूर्व अपराधो न कार्यः, कृते च क्षामणं श्रेयः, अन्यथा अनर्थपरंपरा स्यात् इति क्रोधोपरि कुम्भकारदृष्टान्तः॥ I तथा अस्मिन् पर्वणि यः क्रोधं न मुञ्चति स सङ्घावहिः कार्यः शदितनागवल्लीपन्नवत् । अत्रार्थ दृष्टान्तःकोऽपि खेडचास्तव्यद्विजोऽभूत् तेन कृषिकर्म प्रारब्धं, बलीवी दुर्बलो गलिन वहति तोत्रादिभिः कदर्थयितुं प्रारब्धः, तथापि न वहति, ततः तेनाऽतिक्रोधात्, मृत्पिण्डैः आहत्य आहत्य कुमरणेन मारितो गोहत्यापातकं लग्नं । महापुरुषपाचे प्रायश्चित्तं पृष्टं-"दीयतां मम यथा शुद्धो भवामि ।" तैः उक्तं-"कोपो गतः।” द्विजेनोक्तं-"एवं चेत् तं पश्यामि, तदा मृतं अपि मारयामि।" तदा तैः अपातेयः कृतः, अयोग्यत्वात् । एवं ॥२७३॥ अनुपशान्तकोपः साधुरपि अपराधे जाते मृगावतीवत् मनःशुद्ध्या मिथ्या-दुस्कृतं देयं । तत्सम्बन्धलेशो यथा-एकदा श्रीमहावीरदेवः कौशाम्बीनगर्या समवस्ता, तदा तत्र चन्द्रसूर्यो स्वकीयमूलविमानेन वन्दितुं For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy