________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
कुसिया ति" फुसारमात्रं अवश्यायो-महिकावर्ष वा घृष्टिकायोऽप्कायवृष्टिः तस्मिन् निपतति सति भिक्षार्थ गाथापतिकुले गन्तुं न कल्पते १ । पुनः जिनकल्पिकादेः भिक्षोः "अगिर्हसि त्ति" अनाच्छादिते आकाशे* इत्यर्थः । "पिंडचायं पडिगाहित्ता” पिण्डपात-आहारं प्रतिगृह्य "पजोसवित्तए" आहारयितुं न कल्पते २ कथं?, कदाचित् अर्धभुक्तेऽपि वृष्टिः स्यात्[संभवति। ननु जिनकल्पिकादयो देशोनदशपूर्वधरत्वेन अतिशयज्ञानिनः तैश्च मागेव उपयोगः कृतो भविष्यति, तत् कथं अर्धभुक्ते वृष्टिः संभवति ? । सत्यं, छानस्थिकोपयोगः तथा वा स्यात् अन्यथा वा स्यात् इति अदोषः। अथ आकाशे भुञ्जानस्य यदि वर्षेत् तदा पिण्डपातस्य देशं एकदेशं भुत्तवा देशं च आदाय पाणिं आहारैकदेशसहितं पाणिना-द्वितीयहस्तेन परिचाय-आच्छाय उरसिम्हृदये निलीयेत् निक्षिप्येत् वा। “ण” इति तं साहारं पाणिं कक्षायां वा समाहरेत् अन्तर्हितं कुर्यात् , एवं च कृत्वा यथा छन्नानि-गृहिभिः स्वनिमित्तं आच्छादितानि लयनानि-गृहाणि वृक्षमूलानि वा उपागच्छेत् । यथा “से" तस्य साधोः पाणौ-हस्ते दकादीनि जलादीनि न पर्यापद्यन्ते न विराध्यन्ते न पतन्ति वा, तत्र दक-बहवो बिन्दवः दकरजो विन्दुमात्रं "दगफुसिआ" फुसार अवश्याय इत्यर्थः । उक्तमेवार्थ निगमयन् आह-"चासावासं" इत्यादि ॥ जिनकल्पिकादेः पाणिपतग्रहिकस्य साधोः यत्किचित् “कणगफुसियमित्तं पि निवडइ नो से कप्पई" कणो-लेशः तन्मात्रं कं-पानीयं "फुसिया" फुसारमात्रं कनकस्य "फुसिआ"| तन्मात्रं अपि यदि निपतति तदा न कल्पते भिक्षार्थ गृहस्थगृहे गन्तुं ।। इति द्वादशी सामाचारी ॥ १२ ॥
कल्प४३
For Private and Personal Use Only