________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
घरंतरं संखडिं संनियदृचारिस्स इत्तए, एगे पुण एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं संनियहचारिस्स इत्तए ॥ २७ ॥ (११) व्याख्या-"यासावास" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च उपाश्रयात्-शय्यातरगृहात् आरभ्य यावत् सप्तगृहमध्ये, संखडि संस्क्रियते इति संस्कृति ओदनपाकः, तां "इत्तए त्ति" गन्तुं न कल्पते, पिण्डपानार्थ तन न गच्छेत् इत्यर्थः, तेषां गृहाणां संनिहितया साधुगुणहृतहृदयत्वेन उद्गमादिदोषसंभवात् ।। एतावता-शय्यातरगृहं अन्यानि च षट् आसन्नगृहाणि वर्जयेत् इत्युक्तं, कस्य न कल्पते ?, इत्याह-"संनियहचारिस्स" निषिद्धगृहेभ्यः संनिवृत्तः सन् चरति विहरति इति संनिवृत्तसंचारी-प्रतिषिद्धवर्जकः साधुः तस्य, बहवःतु एवं व्याचक्षते-सप्तगृहान्तरं संखर्डि जनसंकुलजेमनवारालक्षणां गन्तुं न कल्पते तत् अपि उक्तं प्रतिभाति तत् प्रमाणीकर्तव्यं । द्वितीयमते शय्यातरं-अन्यानि च सप्तगृहाणि वर्जयेत् इत्युक्तं । तृतीयमते शय्यातरगृहं अनन्तरगृहं सस च अन्यानि वर्जयेत् इत्युक्तं । “उवस्सयाओ परेण ति" उपाश्रयात् परतः सप्तगृहान्तरं एतुं गन्तुं न कल्पते । “परंपरेणं त्ति” परम्परया व्यवधानेन सप्तगृहान्तरं एतुं गन्तुं न कल्पते, शय्यातरगृहात् अनन्तरं एकं गृहं ततः सप्त गृहाणीति परम्परता ३ । इति एकादशी सामाचारी ॥११॥
For Private and Personal Use Only