________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशम्यैका
कल्पसूत्रं कल्पलता व्या०९
दश्यौ
सामाचायौं
॥२५१॥
XXXXXXXXXXXX
व्याख्या-“चासावासं" वर्षाकाले स्थितस्य भिक्षोः 'संखादत्तियस्स' संख्यया उपलक्षिता दत्तयो यस्य स संख्यादत्तिकः तस्य दत्तिपरिमाणवत इत्यर्थः। तत्र लवणास्वादनमात्रमपि प्रतिगृहीता दत्तिः स्यात् । यतो लवणं किल स्तोकं दीयते यदि तावन्मात्रं भक्तपानस्य गृह्णाति तदा साऽपि दत्तिर्गण्यते। अथ येन साधुना पश्चभोजनस्य पञ्चैव पानकस्य दत्तयः अभिग्रहत्वेन कृताः सन्ति, तदा भोजनस्य पानकमध्ये पानकस्य भोजनमध्ये न क्षेप्तव्याः। एवं अथवा चतस्रो भोजनस्य पञ्च च पानकस्य, अथवा पञ्चभोजनस्य चतस्रश्च पानकस्य, अत्रापि अन्यदीया दत्तिः अन्यस्मिन् न क्षेपणीया । पञ्चेति उपलक्षणं न्यूनत्वेन चतस्रस्तिस्रो द्वे एका अधिकत्वेन षट् सप्त वा यथाभिग्रहं वाच्याः। पुनरिदं रहस्यं-केनचित् पञ्च दत्तयो भोजनस्य लब्धाः तिस्रश्च पानकस्य, ततः पानकसत्का अवशिष्टास्ता भोजने क्षिपति वर्धयति इत्यर्थः । भोजनसत्का वा पानके इत्येवं समावेशो न कल्पते इत्यर्थः ॥ इति दशमी सामाचारी ॥ १० ॥
अथ संखडिविचाररूपां एकादशमी सामाचारी आहवासावासं पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरं. तरं संखडि संनियहचारिस्स इत्तए, एगे एवमाहंसु-नो कप्पइ जाव उवस्सयाओ परेण सत्त
॥२५॥
For Private and Personal Use Only