________________
Shri Mahavir Jain Aradhana Kendra
*x*x*x
www.kobatirth.org
साधोः एक "उसिणवियडे त्ति" उष्णजलं प्रतिग्रहीतुं कल्पते । तदपि कीदृशं ? । “असिक्थं" सिक्धवर्जितं यतः प्रायेण अष्टमात् ऊर्ध्वं तपखिनः देहं देवताऽधिष्ठितं भणति ५ । तथा वर्षाकाले स्थितस्य भिक्षोः प्रत्याख्यात भक्तस्य 'भत्तपडियाइवियरस त्ति' अनशनिन इत्यर्थः । एकं उष्णजलमेव प्रतिग्रहीतुं कल्पते । तदपि " असिक्थं" सिक्थवर्जितं परं "न सस्त्रियं तदपि परिपूतं वस्त्रगलितं अपरिपूते तृणकाष्टादेः गले लगनात् । तदपि परिमितं, अन्यथा अजीर्ण स्यात् ६ । कचित् "सेवि य णं बहुसं पुन्ने" इत्यपि दृश्यते, तत्र ईषत् = अपरिसमाप्तं संपूर्ण बहुसंपूर्ण 'नान्नः प्राक् बहुव' इति बहुप्रत्ययः । अति स्तोकतरे हि तृण्मात्रस्यापि नोपशम इति ।। इति नवमी सामाचारी ॥ ९ ॥
अथ दशमीं सामाचारीं दत्ति-संख्यारूपां प्राह
वासावासं पज्जोसविअस्स संखादत्तियस्स भिक्खुस्स कप्पंति पंच दत्तीओ भोअणस्स पडिगा - हित्तए पंच पाणगस्स अहवा चत्तारि भोअणस्स पंच पाणगस्स अहवा पंच भोअणस्स चत्तारि पाणगस्स, तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिआ सिया कप्पड़ से तद्दिवसं तेणेत्र भत्तद्वेणं पज्जोसवित्तए, नो से कप्पइ दुच्छंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २६ ॥ (१०)
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
• X · X · X · X · X