________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
COM
तृतीयचतुर्थ
कल्पसूत्र
एतादृशीं नदी लङ्गितुं पञ्चक्रोशान् गन्तुं प्रत्यागन्तुं च कल्पते । कीदृशी नदी? । नित्योदका नित्यस्तोकजला । कल्पलता
पुनः नित्यस्यन्दना-निरंतरसततवाहिनी, 'तो' इति ततः तस्य साधोः कल्पते । कया सदृशी?, इत्याह-एरावतीव्या०९ नानी नदी कुणालानामनगयां द्विक्रोशं सदा वहति, तादृशी नदी लवितुं कल्पते । कथं? । स्तोकजलत्वात् यत्र सामाचायौं ॥२४५॥
चकिया शक्नुयात् सिया यदि लङ्घनविधिं आह-एक पादं जले जलमध्ये कृत्वा निक्षिप्य एकं च पादं लस्थले आकाशे कृत्वा द्वाभ्यां पादाभ्यां अविलोडयन् गन्तुं शक्नुयात् , तदा तत्परतः स्थितग्रामादौ भिक्षाचर्या XI
कल्पते, नान्यथा । एकं पादं जलान्तः क्षिपति, द्वितीयं च पादं जलात् उपरि उत्पाटयति तदा कल्पते । यन्त्र च जलं विलोज्यते तत्र गन्तुं च न कल्पते इत्यर्थः । यत्र च न शक्नुयात् गत्वा प्रत्यागन्तुं तत्र न गच्छेत् । यत्र जाधं यावत् जलं स दकसंघट्टः १, नाभिं यावत् जलं स लेपः २, तत्परतो लेपोपरि ३ ततः ऋतुबद्धे काले भिक्षाचर्यायां यत्र त्रयोदकसंघद्याः, वर्षासु च सप्त भवेयुः तत्र क्षेत्रं न उपहन्यते, चतुरादिभिश्च तैः अष्टादिभिश्च तैः उपहन्यते, ते च ऋतुबद्धे गतागतेन षट् वर्षासुचतुर्दश १४ स्युः, लेपश्चैकोऽपि क्षेत्र उपहन्ति, लेपोपरि तु किं वाच्यं? तथा यदि चतुरो मासान् एकद्विव्यादिदिनान् वा उपोषितः स्थातुं न शक्नोति, तदा जघन्यतोऽपि पूर्व क्रियमाणनमस्कारसहितादेः पौरुष्यादितपोवृद्धिं कुर्यात् इति ॥ इति तृतीया सामाचारी ॥३॥ ॥२४५॥
अथ साधूनां परस्परदानरूपां चतुर्थी सामाचारी प्राहवासावासं पजोसवियाणं अस्थगइयाणं एवं वृत्तपुवं भवइ-'दावे भंते !', एवं से कप्पइ
XXXXXXXXXXXX
For Private and Personal Use Only