________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या०९
॥२४३॥
करणद्वारपिधानादिभिः। पुनः किंविशिष्टानि अगाराणि । “घट्ठाई" विषमभूमिभञ्जनात् । पुनः किंविशिष्टानि > प्रथमा अगाराणि ? | "मट्ठाई [श्लक्ष्णीकृतानि-मुकुमालीकृतानि, क्वचित् "संमट्ठाई त्ति” पाठः, तत्र समन्तात् मृष्टा-1 सामाचारी नि-मरणीकृतानि । पुनः किंविशिष्टानि अगाराणि? | "संपधूमिआई" सौगन्ध्यापादनार्थ धूपितैः वासितानि । पुनः किंविशिष्टानि अगाराणि ?। “खाओदगाई” कृतप्रणालीरूपजलमार्गाणि । पुनः किंविशिष्टानि अगाराणि?। "खायनिद्धमणाई" खातं निर्धमनं खालं गृहात् सलिलं येन निर्गच्छति येषु तानि, एवंविधानि गृहाणि "अप्पणो अट्ठाए त्ति” गृहस्थैः आत्मार्थ कृतानि परिकर्मितानि, करोतेः काण्डं करोति इत्यादिवत् परिकर्मार्थत्वात् । पुनः किंविशिष्टानि अगाराणि ? “परिभुताई" परिभुक्तानि, तैः स्वयं परिभुज्यमानत्वात् । अत एव परिणामितानि-अचित्तीकृतानि-प्रासुकीकृतानि भवन्ति इत्यर्थः। ततः सर्विशतिराने त्रि]मासे गते अमी अधिकरणदोषा न भवन्ति । यदि पुनः प्रथममेव स्थिताः स्मः इति ब्रूयुः, तदा ते गृहस्था मुनीनां स्थित्या सुभिक्षं संभाव्य तप्तलोहगोलककल्पा दन्तालक्षेत्रकर्षणगृहाच्छादनादीनि कुर्युः, तथा च अधिकरणदोषाः, अतः तत्परिहाराय पञ्चाशत् दिनैः वयं अत्र स्थिताः स्म इति वाच्यं इति १, यथा श्रीमहावीरः पञ्चाशत् दिनैः पर्युषणां अकार्षीत्, तथा सुधर्मादिगणधरा अपि २, यथा गणधराः तथा गणधरशिष्याः|
॥२४३॥ जम्बूप्रमुखा अपि ३, यथा गणधरशिष्याः तथा स्थविरा अपि स्थविरकल्पिका अपि ४, यथा स्थविराः तथा “जे इमे अजत्ताए” अद्यकालीना आर्यतया व्रतस्थविरत्वेन इत्येके श्रमणा निर्ग्रन्था विहरन्ति । एतेऽपि
BaBXXXXXXXXX
For Private and Personal Use Only