________________
Shri Mahavir Jain Aradhana Kendra
EXOXOX?
3
***---
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चाशत् दिनैः एव पर्युषणां कुर्वन्ति, यथा इमे अद्यकालीनाः श्रमणाः, तथा अस्माकं आचार्या- उपाध्यायाश्च कुर्वन्ति । यथा अस्माकं आचार्या उपाध्यायाः तथा वयमपि पञ्चाशत् दिनैः कुर्मः ॥
अप अपवाद आह - "अंतरा वि अ से कप्पर पज्जोसवित्तए" अन्तराऽपि च अर्वाक अपि कल्पते पर्युषितुं परं न कल्पते तां रजनीं भाद्रपद शुक्लपञ्चमी “उवाइणावित्तए सि” अतिक्रमितुं "उष-निवासे" इति आगमिको धातुः, "वस निवासे" गणसम्बन्धिको वा । इह हि पर्युषणा द्विघा - गृहिज्ञाता गृहि-अज्ञाता च । तत्र अज्ञातायां वर्षायोग्यपीठफलकादिद्रव्यक्षेत्र कालभावस्थापना क्रियते, सा स्थापना आषाढपूर्णिमायां पञ्चपञ्चदिनवृद्ध्या यावत् भाद्रपद शुक्लपञ्चम्यां च एकादशसु पर्वतिथिषु क्रियन्ते १, गृहिज्ञातायां तु यस्यां सांचत्सरिकातीचारालोचनं १ [चनं] पर्युषणायां कल्पसून्नभणनं २ चैत्यपरीपाटी ३ अष्टमं ४ सांवत्सरिकप्रतिक्रमणं ५ च क्रियते, यया च त्रतपर्यायवर्षाणि गण्यन्ते सा भाद्रपदशुक्लपञ्चम्यां युगमधानका लिक सूर्यादेशात् चतुर्थ्यां अपि जनप्रकटं कार्या । यत्तु अभिवर्धितवर्षे दिनविंशत्या पर्युषितव्यं, तत् सिद्धान्तटिप्पणानुसारेण तत्र हि युगमध्ये पौषः, युगान्ते च आषाढ एव वर्धते नाऽन्ये मासाः तानि च अधुना न सम्यक ज्ञायन्ते अतो दिनपञ्चाशतेव पर्युषितत्र्यं । कालावग्रहश्च अत्र जघन्यतो दिन ७० मानः, उत्कर्षतो वर्षायोग्यक्षेत्रान्तराभावात् आषाढे, न वृष्टेः अनुपरमात् मार्गशीर्षेण सह पण्मासः । द्रव्यादिस्थापना चैवं द्रव्यस्थापना पीठ-फलक-तृण- डगल-रक्षा-मल्लकादीनां परिभोगः १ सचित्तादीनां च परित्यागः २ तत्र
For Private and Personal Use Only