________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
अथ नवमं व्याख्यानम् ॥
॥ अर्ह ॥ अथ नवमं व्याख्यायते । तत्र पूर्व प्रथमवाचनया श्रीपञ्चपरमेष्ठिनमस्कारो व्याख्यातः । पुनः श्रीमहावीरदेवस्य संक्षेपवाचनया पट्कल्याणकानि व्याख्यातानि १, द्वितीयवाचनया च श्रीमहावीरदेवस्य * च्यवनकल्याणकं गर्भापहारकल्याणकं च व्याख्यातं २, तृतीयवाचनया च चतुर्दश खन्ना व्याख्याताः ३, चतुर्थवाचनया च श्रीमहावीरदेवस्य जन्मकल्याणकं व्याख्यातं ४, पश्चमवाचनया च श्रीमहावीरदेवस्य दीक्षा १ ज्ञान २ निर्वाण ३ कल्याणकत्रयं व्याख्यातं ५, षष्ठवाचनया च श्रीपार्श्वनाथ-श्रीनेमिनाथतीर्थकरयोः पञ्च पञ्च कल्याणकानि व्याख्यातानि ६, सप्तमवाचनया च अन्तरकालः, श्रीऋषभदेवस्य पञ्चकल्याणकानि व्याख्यातानि ७, अष्टमवाचनया च स्थविरावली व्याख्याता ८॥
अथ नवमवाचनायां साधुसामाचारी व्याख्यायते । तत्र प्रथमं आषाढचतुर्मासकात् कतिभिः दिनैः पर्युषणाः कर्तव्याः इति दिनसंख्या प्रश्नोत्तररूपा प्रथमसामाचारी प्रोच्यते, तनाह
For Private and Personal Use Only