________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ८
॥ २४१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यदस्ति तत् प्रमाणं २ | तृतीयस्तु कालिकाचार्यः श्रीवीरनिर्वाणात् सं० ९९३ वर्षे श्रीविक्रमादित्यसंवत्सरात् ५२३ वर्षे जातो, येन श्रीवीरवाक्यात् श्रीपर्युषणापर्व श्री भाद्रपदसुदिपश्चमीतः चतुर्थ्यां प्रवर्तितं ३ । एवं कालिकाचार्याः त्रयो वाच्याः, तेषां विस्तरसंबन्धस्तु मत्कृतकालिकाचार्यकथातः पृथगेव ज्ञेयः ।
तथा यदि वाचन [जायन्ते तदा स्थविरावल्या एकं व्याख्यानं, सति बेलासंभवे च कालिकाचार्यकथापि वाच्या । अथ च यदि एकादशत्रयोदशवाचना भवन्ति तदा एकं स्थविरावलीव्याख्यानं । द्वितीयं कालिकाचार्यकथा सा मत्कृता अतिसरसा पृथगेवास्ति । इत्यनेन अष्टमवाचनायां श्रीस्थविरावली व्याख्याता । अग्रे नवमवाचनायां श्रीसाधु २८ सामाचारी गुर्वावली च व्याख्यास्यते । स वर्तमानयोगः ।
एवं अस्मिन् श्रीपर्युषणापर्वणि एके दानं ददति - इत्यादि स श्रीवीरवर्धमानस्वामिप्रसादः । एवं ततः परंपरया श्रीसुधर्मखामिवज्रस्वामिनो यावत् खगच्छपरंपरया वर्तमानभद्वारकाज्ञया श्रीसङ्घः प्रवर्ततां इति वाच्यं ॥ व्याख्यानं कल्पसूत्रस्य, सुगमं स्फुटमष्टमम् । शिष्यार्थं पाठकाञ्चकुः श्रीमत्समयसुन्दराः ॥ १ ॥
इति श्रीकल्पसूत्रस्य अष्टमं व्याख्यानं श्रीसमयसुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥
For Private and Personal Use Only
बप्पभट्टि
सूरि-पाद
लिप्साचार्य
सम्बन्धः
॥ २४१ ॥