________________
Shri Mahavir Jain Aradhana Kendra
कल्प० ४१
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लयगिरिः यत्कृता विशेषावश्यकवृत्तिममुखा अनेके अतिसुगमा ग्रन्थाः सन्ति । एवं श्रीहेमचन्द्रसूरिः पूर्णतलुगच्छे सार्धत्रिकोटिग्रन्थकर्ता अष्टादशदेशस्वामिश्रीकुमारपालप्रतियोधको लब्धपद्मावतीवरो बभूव । एवं | उकेशवंशगच्छे श्रीरत्नप्रभसूरिः येन ओसियानगरे कोरण्टानगरे च समकालं प्रतिष्ठा कृता, रूपद्वयकरणेन चमत्कारश्च दर्शितः । एवं श्रीमान देवसूरिः शान्तिस्तवकृत् । एवं भक्तामर स्तोत्रकर्ता श्रीमानतुङ्गसूरिः, एवं श्रीखरतरगच्छे नवाङ्गीवृत्तिकार कश्रीस्तम्भनपार्श्वप्रकटकश्री अभयदेवसूरिः । एवं श्रीतपागच्छे भाष्यकर्मग्रन्धादिशास्त्रकारक श्रीदेवेन्द्रसूरिः । पुनरेवं वादिवेताल-श्री शान्तिसूरिः । पुनरेवं परकायप्रवेशकृत् श्री जीवदेवसूरिः । पुनरेवं कुमुदचन्द्र दिगम्बरवादिजेता श्रीवादिदेवसूरिः । एवं अनेके प्रभावकपुरुषाः श्रीजिनशासने जाताः सन्ति । तेऽपि स्थविरावलीमान्ते वाच्याः । तथा श्रीकालिकाचार्योऽपि स्थविरः परं कालिकाचार्याः त्रयो जाताः । तत्रैकः श्रीवीरात् सं० ३७६ वर्षे श्रीश्यामाचार्याऽपरनामा कालिकाचार्यः श्रीप्रज्ञापनासूत्रकर्ता पूर्वचिदां वंशे । श्रीसुधर्मस्वामिन आरभ्य त्रयोविंशतितमः पुरुषो जातः, येन ब्राह्मणी भूतसौधर्मेन्द्रस्याग्रे निगोदविचारः कथितः । केचित् वदन्ति-अयं कालिकाचार्यः तथाविधगाथादर्शनात् वीरात् सं० ३२० वर्षे जातः । केचित् वदन्ति ३२५ वर्षे । केचित् वदन्ति चतुर्थ्यां पर्युषणापर्वप्रवर्तक एव निगोदविचारो व्याख्यातः । यथास्थितं बहुश्रुता एव विदन्तीति । द्वितीयस्तु कालिकाचायों वीरात् सं० ४५३ वर्षे सरस्वतीभ्राता गर्दभिल्लोच्छेदको बलमित्रभानुमित्रयोः भागिनेयो जातः । अत्रापि यः चतुर्थ्यां पर्युषणाप्रवर्तककालिकाचार्यः स एव तयोर्मातुलः प्रोक्तोऽस्ति,
For Private and Personal Use Only
* X *• X