________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लिम्पिते चिगचिगाटो जायते ।" एतत् श्रुत्वा विप्रो दध्यो- "मया हारिनं, अर्थाऽनवगमात् । कोऽर्थोऽस्या गाथायाः १।" साध्वी प्राह - "अस्माभिः प्रायो गृहस्थस्य अग्रेऽर्थो न कथ्यते । अस्मद्गुरव उद्याने सन्ति ते कथयिष्यन्ति ।" ततः तत्र गत्वा गाथार्थ श्रुत्वा प्रतिज्ञापालनार्थं दीक्षां ललौ । जैनशास्त्राण्यपि भणित्वा सूरिपदं प्राप्तः । तस्य श्रीहरिभद्रसूरेः हंस- परमहंसौ शिष्यो बहुशास्त्रपारगो अभूतां । परशासनविद्यारहस्य ग्रहणार्थं बौद्धाचार्यसमीपे पठितुं गतौ, छात्रीभूत्वा बौद्धगुरुपार्श्वे पेठतुः । एकद्रा पुस्तकेषु खहिकां दत्तां दृष्टाऽक्षरेषु ज्ञातं सूरिणा कावपि जैनौ स्तः । तत्परीक्षार्थं गुरुः उपरिभूमौ छात्र भणनार्थ उपविष्टः । छात्रा उपरि आगत्य भणन्ति, सोपानकेषु जिनप्रतिमा मुक्ता परीक्षार्थ, बौद्धसाधवः प्रतिमोपरि पादौ दत्त्वा उत्तरन्ति । हंस- परमहंसी जिनप्रतिमां वीक्ष्य खकिया प्रतिमाहृदये यज्ञोपवीतं कृत्वा उत्तीर्णौ । ततो बौद्धैः ज्ञातो मरणभयात् शङ्कितौ खपुस्तिकां लावा खदेशं प्रति चेलतुः । बौद्धवचनात् राज्ञा पश्चात् कटकं प्रेषितं, प्रथमं तेन सहस्रयोद्धा हंसो हतः, पश्चात् बहुबलं आगच्छन् दृष्ट्वा चित्रको दुर्गपर्यासन्नागतः परमहंसोऽपि हतः । तेन पूर्वमेव खपुस्तिकां आकाशमार्गे गुरुसमीपे क्षिप्ता आसीत्, तत्सैन्यं पश्चात् गतं । एतत्स्वरूपं ज्ञात्वा गुरुः कोपाक्रान्तो जातः । गुरुणा उत्तप्ततैलपूरितः कटाहः कृतः मत्रं जपित्वा यदा गुरुः कटाहे कर्करं क्षिपति तदा वौद्धः तपखी मनाकर्षितः तस्मिन् कटाहे पतित्वा म्रियते, एवं गुरुणा बहवो बौद्धाः आकर्षिताः तथापि इर्ष्या न निवर्तते, तदा एकः श्राद्धः एतां गायां श्रावयामास -
For Private and Personal Use Only