________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मद्रमरिसम्बन्धः
कल्पसूत्रंधलेशो यथा-एकः साधुः वृद्धत्वेऽपि उच्चैःखरेण पठन् राज्ञा दृष्टः, प्रोक्तं च-"त्वं किं मुसलं फुल्लयिकल्पलता व्यसि ?" ततः तेन वाग्देवी आराध्य विद्यां प्राप्य चतुष्पथे मुसलं ऊर्ध्व मण्डयित्वा राजसमक्षं फुल्लयितं । व्या०८ काव्यं च प्राह-"मुद्दोः शृङ्गं शक्रयष्टिप्रमाणं, शीतो वन्हिारुतो निष्पकम्पः । यस्मै यद्वा रोचते तत् न
किश्चित्, वृद्धो वादी भाषते कः किमाह ॥१॥" तेन वृद्धवादिना सिद्धसेनो विप्रो वादे जितः तस्यैव | ॥२३९॥
शिष्यो जातः । सिद्धसेनेन श्रीविक्रमादित्यनामा राजा प्रतियोधितः। विक्रमादित्येन च श्रीशत्रुञ्जययात्रा कृता । तस्य सङ्घ १७० वर्णमया देवालया आसन् । पुनः श्रीसूरिणां उपदेशेन अन्येऽपि राजानः तीर्थोद्धारं चक्रुः । श्रीसूरिसांनिध्यात् विक्रमादित्यो राजा संवत्सरं प्रवर्तयामास । पूर्व तु श्रीवीरसंवत्सरं आसीत् ॥ इति वृद्धवादिसिद्धसेनसम्बन्धः॥ एवं श्रीहरिभद्रसूरिरपि महाप्रभावकः, तत्सम्बन्धो यथा
हरिभद्रनामा विमो महाव्याकरणादिशास्त्रपारगः सन् प्रतिज्ञा चक्र-“यस्य उक्तस्य अर्थ अहं न वेनि, तस्य शिष्यो भविष्यामि । एकदा सन्ध्यायां नगरमध्ये गच्छन् साव्या गुण्यमानां गाथां शुश्राव
"चकिदुग हरिपणगं, पणगं चक्कीण-केसवो चक्की । केसव चक्की केसब, दु-चक्की केसीय चक्की य ॥१॥ श्रुत्वा च माह-"भो साध्वि! कोऽयं चिगचिगायमानः शब्दो जायमानोऽस्ति ? ।' साना पाह-"नवीने १ चक्रिविक हरिपञ्चकं पञ्चकं चक्रिणां केशवश्चक्री, केशवश्वक्री केशवद्विवक्रिकेशिनौ च चक्री च ।। १२ चक्रवर्तिनः ९ वासुदेवाश्च,
॥२
For Private and Personal Use Only